Proofing

This page has not been fully proofread.

११६
 
नृसिंह पूर्वतापनीयोपनिषद्भाष्ये
 
सर्वे देवा: अधि इति उपरि शिरसि अक्षरे न क्षरति न
विलीनं भवति परमे व्योमन् व्योमनि सर्वाभिषेकद्वारत्वात्
परमं मोक्षद्वारत्वाश्च व्योम यस्मिशिरसि । य उपासक.
तच्छिरो वेददेवदेवीभिः प्रागुक्तेन प्रकारेण अभिषिक्तं न वेद
न जानाति किमृचा ऋग्वेदादिना करिष्यति । यद्वा सई पाहि
इति अनया ऋचा किं करिष्यति । य इत् इत्थमेव तदभिषिक्तं
शिरः विदुः उपासते त इमे उपासकाः समासते सम्यक्प्र-
कारण आसते सुखिनः इत्यर्थः । ऋग्गतम् ऋक्पदं व्याच-
ष्टे । न ह वै एतस्य ऋचा न यजुषा न साना अर्थः प्रयो-
जनम् अस्ति
सावित्रीं शिरः शिखां साधनभूतां
वेदेति । ततश्च अयमर्थः । अष्टाक्षरां सावित्रीं पठित्वा
प्रागुक्ताः सर्वे वेददेवादयः अभिषिञ्चतीति सावित्रस्य अष्टा- .
क्षरं पदम् अष्टावक्षराण्यभिषेचनाय यस्मिशिरसि तदष्टा-
क्षरं शिरः तदेव पदम् आश्रयः इति तत्त्वार्थः । एवं ताव-
नृसिंहब्रह्मविद्यां शिरोऽङ्गोपकारिणीं सावित्राभिषेचनीं वि
द्यामभिधाय अथेदानीं तदुपकारिणीं शिखाङ्गद्वारा सामा-
ङ्गमहालक्ष्मीविद्यामाह — ॐ भूर्लक्ष्मीरिति प्रणवविद्यापुर :-
सरा एताः शक्तयो भूरित्याद्या व्याहृतय: । भूः, भू सत्ता-
यामिति सत्तायामत्र वर्तते । अत एवोक्तमस्माभिः सप्तव्या-
 
यः