2026-05-06 06:50:35 by ambuda-bot
This page has not been fully proofread.
चतुर्थोपनिषत् ।
११५
नां देवानां निदानं भवति य एवं वेद
स निदानवान्भवति ॥ २ ॥
अथ-शब्दः क्रमप्राप्तानन्तर्यार्थः । मन्त्रे सवितृपदाभावे-
ऽपि सावित्रीति वदन् सवितृकालीनप्रकाशवत् सुषुप्तप्रकाश-
वच्च बाह्याभ्यन्तरतमोनिर्वारकत्वात् अयं शिरोऽङ्गप्रकाशो
निबिडाविद्यानिवर्तक इति दर्शयति । गायत्री, अष्टाक्षरत्वात्
तां गायत्री यजुषा व्याचष्टे ; या यजुषा प्रोक्ता तथा सर्वमिदं
व्याप्तम् । शिरोऽङ्गं व्याख्यातम् उपास्यं च । अक्षराणि
गणयति । घृणिरिति द्वे अक्षरे । सूर्य इति त्रीणि, पृथ-
ग्रेफगणनात् । आदित्य इति त्रीणि । एतद्वै सावित्रस्याष्टा-
क्षरं पदं श्रिया अभिषिक्तमिति । श्रयादिभिस्तदादिन्यायेन
सप्तभिः शक्तिभिः विग्रहवतीभिः मणिगणखचितैर्हेमकुम्भै-
रमृतपूर्णैः शिरः अभिषिक्तमित्यर्थः । य उपासकः एवमु
पास्ते तस्य फलं निर्दिशति । श्रिया हैव अभिषिच्यते प्रा-
गुक्ताभिः शक्तिभिः प्रागुक्तेन प्रकारेण सोऽप्यभिषि-
1
च्यत इत्यर्थः । तदेतदृचा अभ्युक्तम् उक्तार्थम् । ऋचो निषे-
दुः नितरां सेवनं कृतवत्यः । ऋग्ग्रहणम् उपलक्षणार्थम् । यद्वा
ऋच इति षष्ठी । ऋचः सईमित्यादिकाया नया: प्रतिपादि-
वेदा वा ; न केवलं शक्तयः, अपि तु विश्वे देवाः
ताः शक्तयः,