Proofing

This page has not been fully proofread.

चतुर्थोपनिषत् ।
 
११३
 
शब्दैः ।
अत एव एकात्मप्रत्ययसारम् एकस्मिन्सर्वेषा-
मात्मनां प्रत्ययः एकात्मप्रत्ययः स एव सारं यस्य तत्
तथोक्तम् । अथवा एक एव आत्मा उपास्योपासकयोः इत्येवं
 
1
 
प्रत्ययः । शेषं पूर्ववत् । अत एव प्रपञ्चोपशमं प्रागुक्तेन न्या-
येन मनसो हि बाह्यदर्शनस्मरणव्यापाराभावात् व्यावृत्तत्वा-
श्च स्वापाभावादित्युपास्यव्यतिरेकेण प्रपञ्चाप्रतीतेः प्रपञ्चो-
पशममिति । शिवं शंकरं चतुर्थ तुरीयपादं मन्यन्ते अर्धमा-
त्रानादात्मकमिति तथोपास्यम् । प्रत्यगात्मतया उपास्य-
माह- स उपास्य आत्मा प्रत्यगात्मेत्येवं विज्ञेयो
 
द्रष्टव्यः ॥
 
एवमियं प्रणवविद्या षट्प्रतिषेधवती सप्तशक्तिकहृदयाङ्ग-
बीजमुखवती अङ्गिना मनोव्यापारं स्थिरं कुर्वती अस्यां विद्या-
याम् उपकारकवती असकृदावर्तनीया ओमुपासकेनेति तात्प-
र्यार्थः । एवं तावत्सामाङ्गप्रणवविद्यां नृसिंहब्रह्मविद्योपका-
रिणीमभिधाय अथेदानीं तदुपकारिणीमेव शिरोऽङ्गव्या-
ख्यात्रीं सामाङ्गसवितृप्रतिपाद्यां विद्यां नृसिंह ब्रह्मविद्याङ्गभू-
तामाह-
 
अथ सावित्री गायत्री या यजुषा
प्रोक्ता तया सर्वमिदं व्याप्तं घृणिरिति
 
S. U. VII. 8