2026-05-06 06:50:34 by ambuda-bot
This page has not been fully proofread.
११२
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
स्वरूपमाह- न बहि. प्रज्ञमिति । बहिर्विषयव्यापारोपरमात्
जागरितावस्थाप्रतिषेधान्मनसो हि स्वस्मिन्व्यापारेणान्तः प्र-
----
-नान्त:-
ज्ञत्वे तैजसत्वे च प्रत्यगात्मन. प्राप्ते, तन्निषेधति-
प्रज्ञमिति । उभयत्र व्यापारप्रतिषेधेन तदन्तरालव्यापारे
प्राप्ते, तं निषेधति -- नोभयत. प्रज्ञमिति । जाग्रत्स्वप्नान्तराले
मनो व्यावृत्त प्रज्ञार्थं न कुर्यादित्यर्थः । अन्तरालव्यापार-
प्रतिषेधेन उभयत्र युगपत्प्रज्ञार्थ व्यापारे प्राप्तं तं निषे-
धति न प्रज्ञमिति । एवं सर्वतो मनोव्यापारप्रतिषेधान्
अव्याकृत मन: अविद्यमानम् असदिव तिष्ठेत तत्प्रतिषेध-
ति नाप्रज्ञमिति । तत्स्थितिप्रतिषेधात् अज्ञानसाक्षिके
स्वप्ने प्राप्ते, तं निषेधति- न प्रज्ञानघनमिति । अथ षट्त्र-
तिषेधैः प्रणवविद्याङ्गभूतैः उपास्यप्रतिकूलं प्रतिषिध्य व्यावृत्य
यदुपास्ये मनोऽव्यावृत्तं कार्यं तदुपास्यं वस्तु निर्दिशति —
अदृष्टमिति । न हि ईदृशमुपाम्यं कचिद्दृष्टं पुरुषाकारमेव वा
तिर्यगाकारमेव वा यथा गोपालकूर्मादि । तत्तु उभयरूपं
नृसिंहात्मकं त्रिनेत्रं पिनाकहस्तमिति । अत एव अव्यवहा -
र्यम् ।
अत एव अलक्षणमिति । न लक्षणं लिङ्गं विद्यते
यस्य तदलक्षणम् । अत एव अचिन्त्यम् अनुमानेन तर्केण
वा । अत एव अव्यपदेश्यं नियताकारोपास्यप्रतिपादकैः