2026-05-06 06:50:33 by ambuda-bot
This page has not been fully proofread.
चतुर्थोपनिषत् ।
,
१११
मनःस्पन्दितं तदभावे हृद्येवाविशेषेण प्राणात्मना अवस्था-
नात्प्राणः प्राणो ह्येवैतान्सर्वान्संवृते' इति श्रुतेः । तैजसः
हिरण्यगर्भः, मनस्यवस्थितत्वात् । लिङ्गं मनः,
6 यत्र मनो-
मयोऽयं पुरुष:' इत्यादिश्रुते: । ननु व्याकृतः प्राणः सुषुप्रे
तदात्मकानि कारणानि भवन्ति कथमव्याकृतता । नैष दोष:,
अव्याकृतस्य देशकालविशेषाभावात् । यद्यपि प्राणाभिमाने
सति व्याकृततैव प्राणस्य, तथापि पिण्डपरिच्छिन्नविशेषाभि-
माननिरोधः प्राणे भवतीत्यव्याकृत एव प्राणपरिच्छिन्ना-
भिमानवतां यथा प्राणलये परिच्छिन्नाभिमानिनां प्राणे अ-
व्याकृतता, तथा प्राणाभिमानिनोऽपि अविशेषापन्नत्वान्
अव्याकृतता, समाना । प्रणवबीजात्मकत्वं च तदध्यक्षश्च
.एको व्याकृतावस्थः परिच्छिन्नाभिमानाध्यक्षाणां च तेनै-
कत्वमिति पूर्वोक्तं विशेषणम् एकीभूतः प्रज्ञानघन: इत्याद्युप-
पन्नम् । तस्मिन्नुक्तहेतुत्वात् प्राणशब्दत्वमव्याकृतस्य, प्राण-
बन्धनं हि सोम्य मनः इति श्रुतेः । एवं तावत्प्रभवा-
प्ययौ हि भूतानामित्यनेन एकविज्ञानेन सर्वविज्ञानं
दर्शितम् । तथा माण्डूक्यश्लोके जागरितावस्थायामेवा-
वस्थात्रयमुक्तं तस्यामेवावस्थायां तत्रैविध्ये मनोव्यापारं
व्यावृत्य प्रागुक्तोपास्ये मनोव्यापारं प्रवर्तयितुम् उपास्य-