Proofing

This page has not been fully proofread.

११०
 
नृसिंह पूर्वतापनीयोपनिषद्भाष्ये
 
षामित्र ' प्राणबन्धनं हि सोम्य मनः' इति श्रुतेः । अत एव
हि सर्वेश्वरः । अत एव हि सर्वभेदावस्थाज्ञाता इत्येष सर्वज्ञ
एषः अन्तर्यामी अन्तस्तनु प्रविश्य सर्वेषां भूतानां नियन्ता-
प्येष एव । अत एव यथोक्तं सभेदं जाग्रत्प्रसूयत इत्येष यो-
निः । अत एव प्रभवश्चाप्ययश्च प्रभवाप्ययौ हि भूतानाम् एष
एव एतावान् उभयत्रापि समानः पाठः । अत ऊर्ध्वं माण्डू -
क्ये उक्ते एवार्थे श्लोकान्पठित्वा तुरीयः पादः, एतस्मिंस्ताप-
नये तु तान्विहाय तुरीयः पादः । तस्मिन्नपि कियान्पाठभे-
दस्तद्व्याख्यानावसरे दर्शित एव तत्रोपयोगी लोक: पठ्यते-
'दक्षिणाभिमुखे विश्वो मनम्यन्तस्तु तैजम. । आकाशे च
हृदि प्राज्ञविधा देहे व्यवस्थित:' । जागरितावस्थायामेव
विश्वादीनां त्रयाणामनुभवप्रदर्शनार्थे श्लोक । दक्षिणम
मुखं यम्य स तथोक्तः तस्मिन्सर्वेषु करणेषु अविशेषेऽपि
दक्षिणे अक्षिण्युपलब्धिपाटवदर्शनात् तत्र विशेषनिर्देशे वि
श्वस्य दक्षिणाक्षिगतो रूपं दृष्ट्वा निमीलिताक्षः तदेव स्मरन्
मनसि अन्त: स्वप्ने इव वासनारूपमभिव्यक्तं पश्यति यथा
अत्र, तथा स्वप्ने; अतः मनस्यन्तस्तु तैजसो विश्व एव आ-
काशो बाह्यादिस्मरणव्यापारोपरमे प्राज्ञः एकीभूतो घन-
प्रज्ञ एव भवति, मनोव्यापाराभावात् । दर्शनस्मरणे