Proofing

This page has not been fully proofread.

चतुर्थोपनिषत्
 
१०९
 
न कंचनेत्यादि । न हि सुषुप्ते पूर्वयोरिव अन्यथाग्रहणल-
क्षणं स्वप्नदर्शनं कामो वा कश्चन विद्यते । तदेतत्सुषुतं
स्थानमस्येति सुषुप्तस्थान: स्थानद्वय प्रविभक्तमनस्पन्दितं द्वै-
तजातम् । तद्यथा रूपापरिज्ञानेन अविवेकापन्नं नैशतमां-
ग्रस्तमिवाहः स्फुटप्रपञ्चम् एकीभूतमुच्यते । अत एव स्वप्न-
जाग्रन्मन: स्पन्दनानि प्रज्ञानानि घनीभूतानीवेयमवस्था वि
वेकरूपत्वात्प्रज्ञानघन उच्यते । यथा रात्रौ नैशेन तमसा
अविभज्यमानं सर्व घनमिव तद्वत् प्रज्ञानघन । एव-शब्दान्
जात्यन्तरं नास्तीत्यर्थः । मनसो विषयविषय्याकारस्पन्द-
नायासदुःखाभावात् आनन्दमयः आनन्दप्रायः न आनन्द
एव, अनात्यन्तिकत्वात् - यथा लोके निरायासस्थितौ मु-
ख्यानन्दभुगुच्यते, ' एष परमानन्द:' इति श्रुतेः । स्वप्ना-
दिप्रतिबोधे चेतः प्रति द्वारीभूतत्वात् चेतोमुखः बोधलक्षणं
वा चेतो मुखं द्वारमस्य स्वप्नाद्यागमनं प्रति इति चेतोमुखः ।
भूतभविष्यज्ञातृत्वात् सर्वविषयज्ञातृत्वमस्यैवेति प्राज्ञेः । सुप्तो
हि भूतपूर्वगत्या प्राज्ञ उच्यते । अथवा प्रज्ञप्तिमात्रमस्यैवासा-
धारणं रूपमिति प्राज्ञः इतरयोर्विशिष्टमपि ज्ञानमस्ति मोऽयं
प्राज्ञः तृतीयः पादः । एष हि स्वरूपावस्थः साधिदैविकस्य
भेदजातस्य सर्वस्य ईशिता नैतस्माज्जात्यन्तरभूते अन्ये-