Proofing

This page has not been fully proofread.

१०८
 
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
 
तश्च स्यात् । अन्यथा परिच्छिन्न एव प्रत्यगात्मा सांख्या-
दिभिरिव दृष्टः स्यात् । इष्यते च सर्वोपनिषदां सर्वात्मैकत्व-
प्रतिपादकत्वम् । अतो युक्तमेव अस्योपासकस्य आत्मन: उपा-
स्येन आत्मना एकत्वमभिप्रेत्य सप्ताङ्गत्ववचनं मुखवचनं च ।
स्वप्नं स्थानमस्य तैजसस्य स स्वप्नस्थानः । जाग्रत्प्रज्ञा अनेकसा-
धना बहिर्विषयेव भासमाना मनसः स्पन्दमाना सती तथा-
भूतसंम्कारं मनस्याधत्ते । तन्मनः तथा संस्कृतं विचित्र
इव पटो बाह्यसाधनानपेक्षम् अविद्याकर्मभ्यां प्रेर्यमाणं जाग्र-
द्वदवभासते । तथा च उक्तम् अस्य लोकस्य सर्वावतो मात्रा -
मपादाय इत्यादि । परे देवे मनस्येकी भवति इति प्रस्तुत्य
अत्रैष देव. स्वप्ने महिमानमनुभवति इत्याथर्वणे। इन्द्रि
यापेक्षया अन्त स्थत्वान्मनसः तद्वासनारूपान्तर्लब्धा स्वप्ने
प्रज्ञा येन इति अन्त.प्रज्ञः । तैजसः विषयशून्यायां प्रज्ञायां
केवलप्रकाशरूपायां विषयित्वेन भवतीति तैजसः । विश्वस्य
सविषयत्वेन प्रज्ञाया: स्थूलाया भोग्यत्वम् । इह पुन:
केवला वासनामात्रा प्रस्फुटप्रज्ञा भोग्येति प्रविविक्तो
भोग इत्युकारमिश्रणं शक्तिबीजयोः । समानमन्यत् । द्वि-
तोय: पादस्तैजमस्त्रिष्वपि स्थानेषु तत्त्वाप्रतिबोधलक्षणः
स्वापोऽविशिष्ट इति पूर्वाभ्यां सुषुप्तं विभजते-यत्र सुप्तो