2026-05-06 06:50:31 by ambuda-bot
This page has not been fully proofread.
•
चतुर्थोपनिषत् ।
१०७
श्वेषां नराणां स्वस्मिन्नेव अनेकधानयनात् विश्वानरः
विश्वानर एव वैश्वानरः । ननु यथा माण्डूक्ये वैश्वा-
नरशब्दसामर्थ्यात् सप्ताङ्गै कोनविंशतिमुखपदद्वयं यथासंख्यं
विराड्ढरण्यगर्भपरत्वेन व्याख्यातम्, तथात्वापि वैश्वानर-
शब्दसामर्थ्यात् उभयपरत्वेन व्याख्यायतां किमिति शक्ति-
बीजपरत्वेन, प्रकरणसंनिधेर्वाक्य संनिधेर्बलीयस्त्वात् । स-
त्यम् । यद्यत्र वैश्वानरशब्दो वैश्वानरविद्यापरत्वेनैव वर्तेत,
तर्हि एवं स्यात्; न त्वेतत्स्यान्, यौगिक्या वृत्त्या अन्यप-
रत्वेन व्याख्यातत्वात् । किं च तत्र तत्र विधेयार्थभेदेन
वाक्यभेदात् वाक्यसंनिधिर्न निश्चितः । अतः उभयत्रापि प्रक-
रणसंनिधेरविशिष्टत्वान् प्राग्व्याख्यैव ज्यायसी । प्रथमः पादः
तत्र अकारोकारमकाराश्रितत्वेन तद्वाचकत्वेन वा एवंविध-
विशिष्टबुद्धयुत्पत्तिरिति प्रथमः पादः । एतत्पूर्वकत्वादुत्तर-
पादाधिगमस्येति प्राथम्यम् । ननु अयमात्मा ब्रह्म इति प्रत्य-
गात्मनोऽस्य चतुष्पात्त्वे प्रकृते कथं शक्तिबीजयोरङ्गमुख-
त्वकीर्तनमिति । नैष दोष:, उपास्योपासकयोरभेदस्यात्र
विवक्षितत्वात् । एवं च सति नृसिंह ब्रह्माद्वैतसिद्धि । सर्व-
भूतस्थच आत्मा एको दृष्ट स्यात् सर्वभूतानि च आ-
त्मनि । 'यस्तु सर्वाणि भूतानि' इत्यादिश्रुत्यर्थश्च एवमुपसंह-
"