2026-05-06 06:50:31 by ambuda-bot
This page has not been fully proofread.
१०६
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
जानीयादिति तथा शक्तिबीजनिर्णयानन्तरम् अस्याङ्गस्य
पाठात् । माण्डूक्ये प्रणवविद्यायामनारभ्य अधीतत्वात् प्राधा-
न्यम् अङ्गत्वेन विनियोगाभावाच्च तथा तत्र शक्तिबीजयोरप्र-
स्तुतत्वाच्च विद्याभेदाच्च तथा व्याख्यानभेदेनार्थभेदात् पृथ-
गर्थप्रतीतिर्व्यायसी । ननु उभयत्राप्यन्यूनानतिरिक्तपाठप्र-
त्यभिज्ञानेन विद्यैक्यान् अङ्गविद्याया उत्कर्ष: प्रधानवि-
द्याया अङ्गविद्याप्रवेशः । अत्रोच्यते-- ' अन्यथात्वं शब्दा-
दिति चेन् न अविशेषात्' इति न्यायेन विद्याभेदस्यैव युक्त-
त्वात् आभ्युदयिककाम्येष्टिवाक्यवत् । ननु भेदेऽपि प्रधान-
विद्याया एव अङ्गत्वेन विनियोगोऽस्तु, प्रत्यभिज्ञानाश्च विद्य
क्यमिति, तन्न प्रकरणान्तरे प्रयोजनान्यत्वम्' इति
न्यायेन नैयमिकानिहोत्रकौण्डपायिनामयनाग्निहोत्रवत् भे.
दस्यैव युक्तत्वात् । कि च उभयत्रापि बहुतरपाठसाम्येऽपि
कचित्पाठभेदोऽपि दृश्यते । तुरीयमात्रानिरूपणावसरे ' एषो-
ऽन्तर्याम्येष ईशान एष प्रभुः इति माण्डूक्ये पाठ ।
तापनीये तु 'एषोऽन्तर्याम्येष योनि:' इति ईशानप्रभुपद-
द्वयं विहाय पाठ: । तस्माद्भिन्नत्वात् यद्यत्र योग्यं प्रस्तुतं
च, तत् तथा व्याख्येयम् । तथा स्थूलभुक् स्थूलां
पृथिवीं हृदयाङ्गान्तर्गतां भुङ्के सेवते इति स्थूलभुक् वि-
'