2026-05-06 06:50:29 by ambuda-bot
This page has not been fully proofread.
१०४
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
.
ती कार्याधिगम्यं कालत्रयापरिच्छेद्यम् अव्याकृतादि तद-
प्योंकार एव - इति अभिधानाभिधेययोरेकत्वे अभिधान-
प्राधान्येन निर्देश: कृत: ओमित्येतदक्षरमिदं सर्वमित्यादि ।
अभिधानप्राधान्येन निर्दिष्टस्य पुनरभिधेयप्राधान्येन निर्देश:
अभिधानाभिधेययोरेकत्वप्रतिपत्त्यर्थम् । इतरथा हि अभि-
धानतन्त्रा अभिधेयप्रतिपत्तिः इति अभिधेयस्याभिधानत्वं
गौणमित्याशङ्का स्यात् । एकत्वप्रतिपत्तेश्च प्रयोजनमभि-
धानाभिधेययोः एकेनैव प्रयत्नेन प्रविलापयन् तद्विलक्षणं
ब्रह्म प्रतिपद्यते इति । तथा च वक्ष्यति -- पादा मात्रा
मात्राश्च पादा इति । तदाह । सर्वे हि एतद्ब्रह्म, सर्व
यदुक्तमोकारमात्रम् एतद्ब्रह्म । तच ब्रह्म परोक्षाभिहितं
प्रत्यक्षतो विशेषेण निर्दिशति-- अयमात्मा ब्रह्मेति
अथमिति चतुष्पात्वेन प्रविभज्यमानं प्रत्यगात्मानं प्रत्य-
क्षतया अभिनयेन निर्दिशति - सोऽयमात्मेति । सोऽय-
मात्मा ओंकाराभिधेयः परापरत्वेन व्यवस्थितः चतुष्पात्
कार्षापणवत् । न गौरिव चतुष्पात् । त्रयाणां विश्वादीनां
पूर्वपूर्वप्रविलापनेन तुरीयस्य प्रतिपत्तिरिति करणसाधनः
पादशब्दः ; तुरीयस्य तु पद्यत इति कर्मसाधन: पाद-
शब्दः । कथं चतुष्पादित्यत्र आह- जागरितं स्थान-
i