2026-05-06 06:50:29 by ambuda-bot
This page has not been fully proofread.
चतुर्थोपनिषत् ।
१०३
"
सत्यकाम परं चापरं च यदोंकारः ' ' ओमित्यात्मानं युञ्जीत
'ओमिति ब्रह्म' ' ओंकार एवेदं सर्वम्' इत्यादिश्रुतिभ्यो
रज्ज्वादिवि सर्पादिविकल्पस्य अद्वयात्मा परमार्थः सन्
प्राणादिविकल्पास्पदो यथा, तथा सर्वो वाक्प्रपञ्चः प्राणा-
द्यात्मविषय: ओंकार एव । स च आनुष्टुबङ्गं सत्त्वात्मस्व-
रूपमेव, तदभिधायकत्वात् । ओंकारविकारशब्दाभिधेयश्च
सर्वः प्राणादि: आत्मविकल्पः अभिधानव्यतिरेकेण नास्ति,
'वाचारम्भणं विकारो नामधेयम् ' ' तस्येदं वाचा तन्त्या
नामभिर्दामभिः सर्व सितम् ' ' सर्व हीदं नामनि' इत्यादि-
श्रुतिभ्यः । अत आह—- ओमित्येतदक्षरमिदं सर्वमिति ।
यदिदमर्थजातम् अभिधानाभिधेयभूतं तस्याभिधानाव्यतिरे-
कान् अभिधानभेदस्य ओंकाराव्यतिरेकात् ओंकार एव इदं
सर्वम् । परं च ब्रह्म अभिधानाभिधेयोपायपूर्वक मवगम्यत इति
ओंकार एव । तस्यैतस्य परापरब्रह्मरूपस्याक्षरस्य ओमि-
त्येतस्य उपव्याख्यानं ब्रह्मप्रतिपत्त्युपायत्वात् ब्रह्मसमीप -
तया विस्पष्टम् आख्यानं प्रकटकथनम् उपव्याख्यानं प्रस्तुतं
जानीयादिति शेषः । न त्वनुषङ्गः, ' व्यवायान्नानुषज्यते
इति न्यायात् । भूतं भवद्भविष्यदिति कालत्रयपरिच्छेद्यं
यत्, तत् ओंकार एव, उक्तन्यायतः । यश्चान्यत् त्रिकाला-
,