2026-05-06 06:50:29 by ambuda-bot
This page has not been fully proofread.
१०२
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
ऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ
हि भूतानां न बहिः प्रज्ञं नान्तः प्रज्ञं नो-
भयतःप्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमह-
ष्टमव्यवहार्यमग्राह्यमलक्षणमलिङ्गमचि-
न्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चो-
पशमं शिवमद्वैतं चतुर्थ मन्यन्ते स
आत्मा स विज्ञेयः ॥ १ ॥
देवा ह वा इत्यादि नारसिंहस्य इत्यन्तं स्पष्टार्थम । अङ्गम-
न्त्रान्नो ब्रूहि भगव इति । वेदे रुकारादेशान्तो भगवच्छब्द
इति संबोधनं भगव इति । अङ्गेषु हृदयाद्यङ्गेषु व्याख्येयेषु
तद्व्याख्यानमन्त्राः अङ्गमन्त्रा:, यद्वा अङ्गानि च मन्त्राश्च अ-
ङ्गमन्त्राः इत्युभयथापि समास उक्तः, किं तु
उभयथाप्येषां
मूलमन्त्राङ्गमन्त्रसंबन्ध: संख्यातः स्थानाच्च सामर्थ्याच्च
प्रतीत नूनं न निवारयितुं शक्यते । स होवाच प्रजापति -
रित्यादि गच्छतीत्यन्तमुक्तार्थम् । येनैव क्रमेणाङ्गानामुद्देश :
कृत:, तेनैव क्रमेण तद्व्याख्यामाह - ओमित्येतदक्षरमिति ।
कथं पुनरोंकारनिर्णयः साकारात्मतत्त्वप्रतिपत्त्युपायत्वं प्रति-
पद्यत इति । उच्यते— ' ओमित्येतदालम्बनम् ' ' एतद्वै