Proofing

This page has not been fully proofread.

चतुर्थोपनिषत् ।
 
१०१
 
हि भगव इति । स होवाच प्रजापतिः
प्रणवं सावित्रीं यजुर्लक्ष्मी नृसिंहगाय-
त्रीमित्यङ्गानि जानीयाद्यो जानीते सो-
ऽमृतत्वं च गच्छति । ओमित्येतदक्षर-
मिदं सर्वं तस्योपव्याख्यानं भूतं भव-
द्भविष्यदिति सर्वमोंकार एव यच्चान्यत्रि-
कालातीतं नदयोंकार एव सर्व ह्येनहू-
ह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पा-
 
जागरितस्थानो बहिः प्रज्ञः सप्ताङ्ग एको-
नविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः
पादः स्वप्नस्थानोऽन्तः प्रज्ञः सप्ताङ्ग एको-
नविंशतिमुखः प्रविविक्तभुक्तैजसो द्वि-
तीय: पादो यत्र सुप्तो न कंचन कामं
कामयते न कंचन स्वप्नं पश्यति तत्सुषुसं
सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवान-
न्दमयो ह्यानन्दभुक्चेतोमुग्वः प्राज्ञस्तृ-
तीय: पाद एष सर्वेश्वर एष सर्वज्ञ एषो-