Proofing

This page has not been fully proofread.

चतुर्थोपनिषत् ॥
 
वं तावच्छक्तिबीजसंपुटितां साङ्गां
नृसिहब्रह्मोपासनामभिधाय अथेदानीं
तदङ्गहृदयादिमन्त्रव्याख्यानाय यथा-
संख्यं सामाङ्गमूलमन्त्राङ्गमन्त्रोपनि-
षत् प्रश्नोत्तररूपाख्यायिकया चतुर्थी
आरभ्यते । ननु यदि मूलमन्त्राङ्ग-
मन्त्रव्याख्यानाय उपनिषदियं प्रस्तुता, तर्हि तदङ्गव्याख्या-
'वसरे अस्या: प्रस्ताव: स्यान्; न त्विदानीं प्रस्तावो युक्तः ।
किं च मूलमन्त्रपदव्याख्यानावसरे तदुपासनायाः कृत्स्नाया
एव उक्तत्वात् अन्ते तत्फलस्य च उक्तत्वात् किमपरमव-
शिष्टम्, यदर्थमियमुपनिषदारभ्यते - अत्रोच्यते । सत्यम् ।
तदङ्गव्याख्यानावसरे पञ्चमाङ्गन्यासे च
'प्रत्यक्षरमुभयत
ओंकारो भवति' इति वचनात् मूलमन्त्राक्षराणां यथापठि-
तानां व्यत्यासे कृते मूलमन्त्रतत्पदापरिज्ञाने प्राप्ते तत्प-
रिज्ञानस्यैवान्तरङ्गत्वात् तदर्थे पदोद्धार प्रस्तुत: तदन-
 
6