2026-05-06 06:50:26 by ambuda-bot
This page has not been fully proofread.
तृतीयोपनिषत् ।
९५
श्रितो देवः स एव होता । वेदिषत् वेद्यां सीदतीति वेदिषत् ।
स एवातिथिः दुरोणसत् दुरोण इति गृहनाम दुर्वा
भवन्ति दुस्तर्णः तस्मिन्सीदतीति दुरोणसत् । स एव नरि
जीवे सीदतीति नृषत्, 'य आत्मनि तिष्ठन् ' इति श्रुते: ।
वरसत वरे वरिष्ठे स्थाने सीदतीति वरसत् । स एव ऋतेन
सत्येन सीदतीति ऋतसत् । स एव व्योम्नि हृदयाकाशे उप-
लभ्यतया सीदतीति व्योमसत् । अब्जा अप्सु क्षीरोदार्णवे
उपास्यतया जात इत्यब्जा: । गोषु वा उपास्यतया प्रतिपाद्यत्वे-
न जात इति गोजा: 'ऋतं सत्यम्' इति मन्त्रवर्णादुपा-
स्यतया जात इति ऋतजाः । अद्रौ मेघे जात इत्यद्रिजा: ।
छन्दसि जनिरय सुबन्तप्रयोगे सकारान्तो दृष्ट इति सोपपदो
विसर्गान्तो दीर्घश्च सुतेजा: इतिवत् । एवं परमात्मैव बृहन्म-
हानिति । ऋतं सत्यं ज्ञेयमिति शेषः । य उपासकः एवं पर-
मात्मतत्त्वं बीजाक्षरवाच्यं तद्बुद्ध्या च उपास्यं वेद जानाति ।
इति-शब्द: शक्तिबीजनिर्णयसमाप्तिं द्योतयति । यद्वा इति
इत्येवं निपातानामनेकार्थत्वात् इत्येवं महोपनिषत् इति
महोपनिषदि पठितानां मन्त्राणाम् एव शब्दात् एतदेव
शक्तिबीजं संबध्नाति । ततश्च मूलमन्त्रे षष्ठपदे यक्षरे
नृकारं सकारं विहाय शिष्टमक्षरद्वयं यथापठितं शक्तिबीजं