Proofing

This page has not been fully proofread.

९४
 
नृसिंहपूर्वतापनीयोपनिषद्वाप्ये
 
1
 
नां सफलामभिधाय अथेदानीं बीजाक्षरनिर्णयं तदाश्रितां
सफलां च उपासनाम् अभिधातुं तन्निर्णयमाह -- सर्वेषां
वा इत्याद्यभिसंविशन्तीत्यन्तं स्पष्टार्थम् । आकाशशब्दो
हकारं वक्ति । सर्वागमशास्त्रप्रसिद्धे. आगमरूपोपनिषत्प्रसि-
द्धेश्च । यस्मादेवं तस्मादाकाशशब्दवाच्यं हकारं बीजं वि-
द्यात् । बीजं निदानं मूलकारणं तद्बुद्धयोपासीत तद्वाचकं
वा निपातरूपेण । स च अयं वाच्यवाचक संबन्धो लोके-
ऽप्रसिद्ध इति मन्त्रागमशास्त्रैकगम्यम् । एवं शक्त्यक्षरमपि
शक्तिवाचकत्वाच्छक्तिः तद्बुद्धयोपास्यत्वाद्वा । शक्तिबीजयो-
स्तद्बुद्धयोपास्यत्वं तद्वाचकत्वादेवेति रहस्यम् । यथा प्रणवा-
क्षरं ब्रह्मवाचकत्वाद्ब्रह्मबुद्धयोपास्यमभूत तद्वच्छक्तिबीजम ;
तच्च सस्वरं व्यञ्जनमात्रं वेति संदेह:, तद्वयावृत्यर्थमाह-
तदेतत् ऋषिणोक्तं निदर्शनम् । तञ्चोक्तार्थम् । हंसः परमात्मा ।
दं मूलकारणं सद्वृहत् । यद्वा सकारेण संबद्धमजपागायत्री-
रूपेण वर्तमानं नासिकापुटाभ्यां निःसृतं ब्राह्मणस्त्रीशूद्राद्य-
धिकारतया वर्तमानं संकल्पादेव फलदं परमात्मवाचकं स
इति । हंस: परमात्मा वक्ष्यमाणं सर्वमभूदिति वाक्यशेषः ।
शुचौ बुद्धौ सीदतीति शुचिषत् । हंस एव वसुः देवः । स
एवान्तरिक्षे सीदतीत्यन्तरिक्षसन् । बृहत् बृंहणत्वादन्तरिक्षा-