2026-05-06 06:50:26 by ambuda-bot
This page has not been fully proofread.
तृतीयोपनिषत् ।
९३
क्ष्यमाणं निदर्शनमुदाहरणम् ऋषिणोक्तं सर्वमिति । साकार-
व्यञ्जनात् पृथक्करणं सबिन्दुकस्य स्वरस्य । अत: सबिन्दु के स्वरे
स्वादिसंबन्धो मायाबुद्धयोपासनं च । सईमिति समासः
सकारश्च ई च सईम् । तस्याः संबोधने ईमिति निपात-
त्वाददोष: । हे सई सबिन्दुकस्वर त्वदालम्बनेन एता.
वक्ष्यमाणाः शक्ती: उपासिताः पाहि रक्ष । यद्वा स इति
व्यस्तं यत्तदोर्नित्यसंबन्धः । य ऋजीषी ऋजुभावेच्छुः
तरुत्र: तरणशील., स ईं शक्तिं सबिन्दुकं स्वरं श्रियादि-
बुद्ध्योपासितं पा: पालितवान् । पा पालने । पालकाधीन -
* त्वात्पालनीयशक्तेः । हीति निश्चितम् । सबिन्दुकस्वराल-
म्बनत्वेनोपास्याः तव व्यूहसंबन्धिनी: शक्तीराह - श्रियं
विष्णुशक्ति पाः पालितवान् । यद्वा पाहि । एवमुत्तरत्रापि
द्विधा संबन्ध: । लक्ष्मीं नृसिंहशक्तिम् औपलामम्बिकां
गौरी महेश्वरशक्तिम्, गां सरस्वतीं ब्रह्मशक्तिम्, षष्ठीं च
म्कन्दशक्तिम्, यामिन्द्रसेनेत्याहुः तामिन्द्रशक्तिमिन्द्राणीम,
विद्याम् ईश्वरशक्तिम्, ब्रह्मयोनिं ब्रह्मावाप्यै कारणभूतां सरूपां
साकारां तां तां शक्तिम् इह सबिन्दुके स्वरे आयुषे उपा-
सनानुकूलायुरभिवर्धनाय शरणं प्रविशामि । एवं शक्त्यक्षर-
निर्णयं तदाश्रितां सप्तविधशक्त्युपासनां दीर्घादिमात्रोपास-
: