Proofing

This page has not been fully proofread.

९२
 
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
 
दब्जा गोजा ऋतजा अद्विजा ऋतं
 
बृहत् । य एवं वेदेति महोपनिषत् ॥ १ ॥
इति तृतीयोपनिषत् ॥
 
देवा ह वै इत्यादि स होवाच प्रजापतिरित्यन्तं स्पष्टा-
र्थम् । मायाविपुरुषाधीना मायेत्युच्यते । लोके हि माया
प्रसारकमायाव्यधीना दृष्टा । वै प्रसिद्धम् । एषा नारसिंही
नृसिहाधीना । यस्मादियं नृसिंहाकारब्रह्माधीना सती सर्व-
मिदं सृजतीत्यादि संहरतीत्यन्तं स्पष्टार्थम् । जगज्जन्म-
स्थितिलयकारणत्वम् एतदधीनम्, शुद्धस्य ब्रह्मणोऽकारण-
त्वात् । यस्मादेवं तस्मान्मायामेतां शक्तिं विद्यात् नृसिंहां-
धीनामुपासीत । य एतां मायां शक्तिं वेद उपास्ते । तदु-
पासनाफलमाह- - स पाप्मानमित्याद्यश्नुत इत्यन्तं स्पष्टार्थम् ।
मीमांसन्ते विचारयन्ति ब्रह्मवादिनः -- star वा दीर्घा
वा प्लुता वा इति । सामान्तर्भावात्प्लुतैवेति प्राप्ते स्वदी-
र्षयोः फलविशेषसंबन्धार्थमियं मीमांसा ; तामाह । यदि
स्वेत्यादि गच्छतीत्यन्तं स्पष्टार्थम् । इस्वदीर्घप्लुतसंबन्धः
सव्यञ्जनस्य स्वरस्य, उत साकाराख्यं व्यजनं विहाय
स्वरस्य संबन्ध इति संदेह: । एतस्मिन्संदेहे निर्णयाय एतद्व-