Proofing

This page has not been fully proofread.

तृतीयोपनिषत् ।
 
र्घा वा प्लुता वेति । यदि हस्वा भवति
सर्व पाप्मानं दहत्यमृतत्वं च गच्छति
यदि दीर्घा भवति महतीं श्रियमाप्नुया-
दमृतत्वं च गच्छति यदि प्लुता भवति
ज्ञानवान्भवत्यमृतत्वं च गच्छति तदेत-
दृषिणोक्तं निदर्शनम् - सई पाहि य
ऋजीषी तरुत्रः श्रियं लक्ष्मीमौपलाम-
म्बिकां गां षष्ठीं च यामिन्द्रसेनेत्युत
आहुस्तां विद्यां ब्रह्मयोनिं सरूपां तामि-
हायुषे शरणं प्रपद्ये । सर्वेषां वा एतद्भू-
तानामाकाशः परायणं सर्वाणि ह वा
हवा
 
इमानि भूतान्याकाशादेव जायन्ते ।
आकाशादेव जातानि जीवन्त्याकाशं प्र-
यन्त्यभिसंविशन्ति तस्मादाकाशं बीजं
विद्यात्तदेतदृषिणोक्तं निदर्शनम् - ह५-
सः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषद-
तिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमस-
 
९१