Proofing

This page has not been fully proofread.

९०
 
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
 
वाच्यम् । ततश्च सामर्थ्यावधारणपूर्वकमेव उपास्याकाराव-
धारणमिति अर्थात्प्राक्संबन्ध:, पाठश्च अनन्तरमिति कथं
 
-
 
संपुटीकरणं स्यादिति प्रजापतेर्हृदयम् । किंच उपासना-
नन्तरं पठितापि इयमुपनिषत् शक्तिबीजनिर्णयात्मिका तत्र
तत्र पदपादसाङ्गोपासनावतरणे 'यस्मात्स्वमहिना' 'यः
स्वनहिना' इति वीप्साशब्देन च अपकृष्टा सती पूर्व संबन्धं
लभते - महोपनिषदपकर्षणवत् । अतश्च आरम्भणीयेति
सिद्धम् ।
 
देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य
मन्त्रराजस्य नारसिंहस्य शक्तिं बीजं
च नो ब्रूहि भगव इति स होवाच प्रजा-
पतिर्माया वा एषा नारसिंही सर्वमिदं
सृजति सर्वमिदं रक्षति सर्वमिदं संह-
रति तस्मान्मायामेनां शक्तिं विद्याद्य
एतां मायां शक्तिं वेद म पाप्मानं त-
रति स संसारं तरति स मृत्युं तरति
सोऽमृतत्वं च गच्छति महतीं श्रियमनु-
ते मीमांसन्ते ब्रह्मवादिनो हस्वा वा दी