Proofing

This page has not been fully proofread.

तृतीयोपनिषत् ॥
 
ԻՐ
 

 
वं द्वितीयोपनिषदि साङ्गां सफला-
मुपासनामभिधाय अथेदानीं तस्या:
शक्तिबीज निर्णयपूर्वकत्वात् तन्निर्ण-
यार्थ तृतीयोपनिषदारभ्यते प्रश्नोत्त-
राख्यायिकया । नन्वेवं तर्हि इयं
 
'पूर्वमेव आरब्धव्या, एतत्पूर्वकत्वात्प्रागुक्ताया उपासनायाः ।
सत्यम । शक्तिबीजद्वयस्य संपुटीकरणेन विवक्षितत्वात् अ-
र्थात्प्राक्प्राप्तस्यार्थस्य पश्चात्संकीर्तने संपुटीकरणं स्यात्; अ-
न्यथा अर्थानुसारेण संकीर्तने पूर्वमेव द्वयं स्यात्, नोपरिष्टा-
तू — इति संपुटीकरणासंभवादिति पाठत उपासनाया ऊर्ध्व
संबन्धः शक्तिबीजस्य, अर्थाख्येन प्रमाणेन प्राक्संबन्धः ।
न हि अनवधृतशक्तिकस्य उपासनस्य उपास्याकारावधृतिः ।
तथा हि कथमम्यायमाकार इति पर्यनुयुक्ते, स्वसामर्थ्यादिति