Proofing

This page has not been fully proofread.


 
द्वितीयोपनिषत् ।
 
८५
 
एवम्, अतोऽहं विश्वं सर्व भुवनम् अभ्यभवाम् अभिभवामि
सुवर्न ज्योती: सूर्यज्योतिरिव । यद्वा सुवर्णाकारस्योपास्यस्य
ज्योति : प्रकाश : अहमेव भवामीति फलनिर्देश: । इदं च फल-
मनुषङ्गात् प्रतिपदं प्रतिपादं च अनुसंधेयम् । असकृत्साकारा-
खण्डवाक्यार्थोपदेशे हि दायें स्यात् तत्त्वमसीति नवकृत्व
उपदेशवत् । एवं साकारनिष्ठस्य यद्यन्तः करणं शुद्धं ततोऽपि
इदमेव फलं व्याख्यातम् । अत एव नोत्तरोपसंहारः प्राक्त-
नवन् तस्मादुच्यत इति, उपासनाभ्यासादद्वैतापत्तेः ; 'यत्र
त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इति श्रुतेः । एत-
त्सर्वे सामाङ्गप्रणवेन हृदयमन्त्रव्याख्यानावसरे स्पष्टीक्रि-
यते ।
य उपासकः एवं प्रागुक्तमुपास्यम् अहं ग्रहोपास-
नया अधिकारतरतमभावाद्वा उपास्योपासकभावेन वा वेद
उपास्ते । इति-शब्द: प्रागुक्तसफलोपासनसमाप्तिं दर्शयति ।
उपनिषदिति उपनिषच्छब्दो व्याख्यातः । इदं च सामा-
धीतं नैवेद्ये विनियुक्तं तच्च आनुष्टुभं द्रष्टव्यम् । न तु
षट्स्वरं साङ्गं वा, यतः प्रथमोपनिषदि यच्छब्दस्य तृतीय-
व्याख्यानावसरे तथैव व्याख्यातत्वात् । आनुष्टुभं च अनु-
ह्रुप्स्वराभ्यां गेयम् । तौ च प्रथमोत्तमौ तथा च अनुष्टुभा
भूतोत्पत्तिव्याख्यानावसरे साक्षित्वेनोद्भावितायाम् ऋचि 'त-
 
'