2026-05-06 06:50:24 by ambuda-bot
This page has not been fully proofread.
८४
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
तादात्म्यलक्षणं सर्वैश्वर्यं ददाति देहान्ते देवः परं ब्रह्म
तारकमिति श्रुतेः फलपदमिदं न तु उपासकपदम् । तच्च
पृथक्सामाभिव्यक्तं मन्त्रेण व्याचष्टे । तच्च सर्वपदेष्वनुष-
ज्यमानं सर्वपदजातं सामाभिव्यक्तमेव व्याख्यातमिति नियमं
दर्शयति । तथा च प्रागुक्ता सर्वोपासना सामपूर्विकैवेति ।
ततश्च प्रागुक्तायामुपासनायाम् उपास्योपासकभावेन प्रवृत्त:
उपासक: उपासनात: शुद्धान्त: करणः प्रत्यगात्मकतयैव उ-
पास्यं साक्षात्कृत्य आह अनेन सान्ना अन्येषामुपासन-
फलं दर्शयितुम् - अहमस्मि प्रागुक्तमुपास्यम् अहं भवामि
प्रथमजाः पुरश्चरणोपासनायाः प्रथमोत्पन्नः । ऋतस्य सत्य-
मूर्तीमूर्तस्य जगत: पूर्व स्यां देवेभ्यो अमृतस्य क्षीरस्य ना-
भायि नाभ्यां यो मा ददाति स्वीकरोति धारयति वा, स
इदेव इत्थमेव मा माम् अवा रक्षितवान् । तथा च अन्न-
स्तावकेन मन्त्रेण सामाभिव्यक्तेन फलनिर्देशं कुर्वन श्रीरो-
दार्णव संबन्धिनीयमुपासनेति दर्शयति । अहमन्नं क्षीरम उ-
पाम्याधारम् अहमेव भवामि । अन्नमदन्वा योऽत्ति, तमन्नम-
दन्तं देवब्राह्मणेभ्यो अन्नमदातारम् अहमद्मि अहं भक्षयामि ।
यद्वा अन्नमदन्तम् अन्नादनकर्तारं जीवभावापन्नं पञ्चाङ्गोपा-
सनात. अद्मि भक्षयामि संसाररूपं विनाशयामीत्यर्थः । यत