2026-05-06 06:50:24 by ambuda-bot
This page has not been fully proofread.
द्वितीयोपनिषत् ।
८३
मादिम साधारणत्वेन पुनः प्रकृत्यर्थम् ऋचा व्याचष्टे-
प्र नूनमिति । उक्थ्यं प्रशस्तं ब्रह्मणस्पतिः ब्रह्मणः साका-
रस्य निराकारस्य च पति: उपदेशद्वारा पाता पालयिता ।
नूनं निश्चितं मन्त्रं सामराजं स्तुहीत्यादि य आत्मदा
इत्यन्तं द्वात्रिंशद्वयूहप्रतिपादकं मन्त्रजातम् । यस्मिन्प्रा-
गुते मन्त्रे इन्द्रो मित्रो वरुणोऽर्यमा देवा ओकांसि गृहा-
व्युपासनाय चक्रिरे कृतवन्त इत्यर्थः । अनेनैतद्दर्शयति-
यथा देवे उपास्ये गुरौ च भक्तिः तथा मन्त्रेऽपीति । तदु-
तम् -' गुरौ देवे च मन्त्रे च सदृशी भक्तिरिष्यते ' इति ।
तत्र च मन्त्रस्य नमस्कार्यत्वश्रवणात् । एवं नमामी-
येतदाख्यातपदमुक्तोपास्ये व्याख्यातं तस्मादित्युपसंहरति-
तस्मादुच्यते नमामीति । एवं नमामीति पदं प्रकृत्यर्थ-
संबन्धित्वेन व्याख्याय अथेदानीमहमिति कर्तृपदं सर्व-
साधारण्येन व्याख्यातुं देवप्रश्नः - अथ कस्मादुच्यते ऽहमि-
ति । तत्र आख्यातोत्तमपुरुषप्रयोगादर्थादेव अहमिति प्राप्ते
पुनः प्रयोगः स च कस्मादिति चोद्याभिप्रायेण । स होवाच
प्रजापतिरित्यनुषज्योत्तरम् । पञ्चाङ्गोपासनाकर्तृफलं निर्दि-
श्यते तादात्म्यलक्षणम् । न च मुमुश्नोरेतदनिष्टमिति वाच्यम्,
एैश्वर्ये सति एतत्फलावाप्तेः । य इह स्थातुमपेक्षते तस्य