2026-05-06 06:50:23 by ambuda-bot
This page has not been fully proofread.
८२
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
हिनेत्यनुषङ्गः । नमामीत्यस्या आख्यातपदत्वात् अस्मदर्थ
प्रत्ययार्थं विहाय प्रकृत्यर्थं व्याचष्टे । तथा च अस्य प्राक्त-
सर्व पदार्थ संबन्धिनः सर्वत्रानुषङ्गः । यस्माच्छब्दोपादानात्
स्वमहिम्नेत्यनुषङ्गः प्रकृत्यर्थेन । यस्मात् यं सर्वे देवाः प्रा-
गुक्तविशेषणं मूलनृसिंहव्यूहं सर्वे पृथिव्यन्तरिक्ष ब्रह्मलोक-
निवासिन: महाचक्रोपासकाश्च नमन्ति नमस्कुर्वन्ति - इति
सर्वनमस्कार्यगुणविशिष्टः उपास्यः इति दर्शयति । तथा च
द्विविधोपासकानां देवानामधिकारिविशेषणमाह- मुमुक्षवो
ब्रह्मवादिनश्च इति, अब्रह्मवादिन इति अन्यथा द्वैविध्यासं-
भवात् । यद्वा मुमुक्षवो ब्रह्मवादिनो मुक्ताश्च लीलया विग्रहं
परिगृह्य नमन्तीत्यनुषङ्गः । एतदुक्तं भवति — ब्रह्मलोके स
ब्रह्मा स शिवः स हरि:' इत्यादिमन्त्रवर्णोपात्तसामाङ्गनृसिं- .
इगायत्र्या व्याख्यातनृसिंहव्यूहः चतुर्थकवचाङ्गाश्रयत्वेनो-
पास्यः । तच्च कवचं सर्वानेतानुपास्यान्संगृह्णातीत्यङ्गचतु-
शृयान्तर्गतानन्यांश्च । अत एवोक्तमस्माभिः कवचाङ्गमन्त्रा-
र्थे व्याचक्षाणैः प्रपञ्चसारे - ' कवचग्रह इत्यस्माद्धातोः
कवचसंभवः । हुं तेजस्तेजसा तेन गृह्यते कवचं ततः
इति । एवं प्रकृत्यर्थ सहितेन च पदार्थ प्रतिपाद्य साधा-
रणरूपरूपं सर्वनमस्कार्यत्वगुणमभिधाय अथेदानीं सा-