2026-05-06 06:50:23 by ambuda-bot
This page has not been fully proofread.
द्वितीयोपनिषत् ।
८१
ददातीत्यर्थः । यस्य प्रशिषं मूलनृसिंहव्यूहस्य अङ्गचतुष्टय-
प्रशिषं प्रकर्षेण शिष्यत इति प्रशिषं प्रोर्वरितं द्वात्रिंशद्वयूहं
विश्वे देवाः सर्वे देवा उपासते उपास्तिं कुर्वन्तीत्यर्थः ।
यस्य च्छायामृतम्, छायेति गृहनाम, छायैवामृतं छाया-
मृतं महाचक्रम्, बदन्तर्भावादस्य व्यूहस्य ;
यो व्यूहो मृत्यु-
मृत्यु: मृत्योरपि मृत्यु:, ' मृत्युर्यस्योपसेचनम्' इति श्रुतेः ।
कं प्रजापतिं ब्रह्मणो व्यूहम्, तदादिन्यायेन बद्धक्रमकत्वात्
सर्वे संगृह्णाति देवम्, 'देवो दानाद्वा द्योतनाद्वा दीपनाद्वा '
इति यास्कवचनात् । हविषा हविष्प्रदानेन होमेन नैवेद्येन वा
अर्चनेन । अत एव वक्ष्यति महाचक्रप्रकरणे - '
अनुष्टुभा
होमं कुर्यात् अनुष्टुभा अर्चनम्' इति । विधेम परिचरेम । य-
'द्वा 'विधतिर्दानकर्म' इति यास्कवचनात् ब्राह्मव्यूहप्रभृति-
व्यूहाय हविर्दद्मः इति विभक्तिव्यत्ययः क-शब्दे देव-शब्दे
च । तस्मिन्पक्षे विधतिः परिचरणकर्मेति तत्त्वार्थः । एवं प्रा-
गुक्तोपास्ये मृत्युमृत्युपदं व्याख्यातं तस्मादित्युपसंहरति-
तस्मादुच्यते मृत्युमृत्युमिति । एवं प्रागुक्तपदं प्रागु-
कोपास्ये व्याख्याय अथेदानीमुभयापेक्षया द्वितीयं दशमं च
पदं व्याख्यातुं देवप्रश्नः - अथ कस्मादुच्यते नमामीति ।
स होवाच प्रजापतिरित्यनुषज्योत्तरम् । यस्मात् स्वम-
1
S. U. VII. 6