2026-05-06 06:50:23 by ambuda-bot
This page has not been fully proofread.
८०
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
दुच्यते भद्रमिति । इति शब्दो व्याख्यातः । एवं तृतीयपादे
तत्तत्पदव्याख्यानेन साङ्गोपासनामभिधाय तथैव चतुर्थपादो-
पासनामभिधातुं तदाद्यपदं मूलमन्त्रापेक्षया नवमं च पदम्
उभयोपास्ये व्याख्यातुं देवप्रश्नः - अथ कस्मादुच्यते मृत्यु-
मृत्युमिति । स होवाच प्रजापतिरित्यनुषज्योत्तरम् । यस्मात्
स्वमहिम्नेत्यनुषङ्गः । स्वभक्तानां भज सेवायां स्वसेवका-
नाम् अनन्यभावेन स्मृत एव उपासित एवं मृत्युं साक्षात्का-
लप्राप्तम् अपमृत्युं च अवान्तरप्राप्तं जातकर्मणि गणितशास्त्र-
निर्णीतायुः परिमाणात् तदन्तरा मृत्यु: अपमृत्युः तं च अनन्य-
भावेन उपासकानाम् अप्रार्थित एव मारयति विनाशयतीत्ये-
वंरूपं कवचमङ्गमुपास्यम् । तस्य सामाग्रमन्त्रेण नृसिंह-
गायत्र्या नृसिंहरूपेण व्याख्यातत्वात् स्वान् तदुपासकान्
स्वस्वरूपान्संपाद्य मृत्युमपमृत्युं च मारयतीत्यर्थः, 'यो वै
नृसिंहो देवो भगवान्यश्च जीव:' इति मन्त्रवर्णात् । इदं
प्रागुक्तं पदं मूलनृसिंहव्यूहो पास्यपरत्वेन व्याख्याय अथे-
दानीं तेनैव पदेन द्वात्रिंशद्वयूद्दम् ऋचा व्याचष्टे । यो
द्वात्रिंशन्नृसिंहव्यूह आत्मदाः आत्मानं ददातीत्यात्मदाः
स्वस्वपदाता सर्वेषां देवानां स्वरूपं दत्वा धारयतीत्यर्थः ।
बलदा: सामर्थ्यदाता स्वोपासकानां स्वस्वरूपधारणे शक्ति