Proofing

This page has not been fully proofread.

द्वितीयोपनिषत् ।
 
७९
 
भद्रमिति । स होवाच प्रजापतिरित्यनुषज्योत्तरम् । यस्मा-
त्पदोपादानात् स्वमहिन्नेत्यनुषङ्गः । स्वयं भद्रो भूत्वा भज-
नीयो माङ्गलिको भूत्वा सर्वदा भद्रं माङ्गलिकं ददाति
भद्रदातृस्वरूपं च मूलव्यूहे उपास्यमिति दर्शयति । रोचनो
दीप्तियुक्तः । रोचमानः शिखाङ्गेन रुचिं दीप्तिं कुर्वन्,
शानच्प्रत्ययान्तत्वात् । तदङ्गं द्वितीयतेजोरूपादङ्गादधिकत-
रतेजोरूपम् । अतश्च नानाभरणयुक्तमौलिगतं तेजः तद-
न्तर्गतानां देवानां च स्वतेजसा अभिभवतीत्येवमुपास्यम् ।
अत एवोक्तमस्माभिः शिखाङ्गमन्त्रं व्याचक्षाणैः प्रपञ्चवा-
गमशास्त्रे – 'शिना तेजः समुद्दिष्टं वषडित्यङ्गमुच्यते ।
तत्तेजोऽस्य ततः प्रोक्ता शिखा मन्त्रेण मन्त्रिण:' इति ।
निरतिशयतेजोऽवयवः शिखेत्यर्थ, यस्य ज्ञानमयी शिखा '
इति श्रुतेः । शोभन: स्वरूपेण, गोभमानः शिखाङ्गतेजसा,
अत एव कल्याण: माङ्गलिकमूलनृसिंहव्यूहः । एवमुक्तो -
पास्ये अष्टमं पदं व्याख्याय अथेदानीं तेनैव पदेन द्वात्रिं-
शद्वयूहम् ऋचा व्याचष्टे – भद्रं कर्णेभिरिति । इयमृक् प्रा-
रम्भे शान्तिपाठे व्याख्याता । तनूभिरेव एभिस्तनूमन्त्रैरेव
स्थिरैरङ्गैरिति विशेष । पञ्चमाङ्गान्तर्भावात्स्तुतिमन्त्राणा-
मेव उभयोपाचे व्याख्यानं तस्मादित्युपसंहरति-- तस्मा-
 
----