Proofing

This page has not been fully proofread.

७८
 
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
 
पलायनं कुर्वन्ति, स्वयं देवः यस्मात्कस्मादपि न बिभेति
निरतिशयाभयगुणविशिष्ट उपास्थ: । एवम् उक्तोपास्ये भी.
षणपदं व्याख्याय तदेव पदं द्वितीये व्यूहे कृत्वा व्याचष्टे -
भीषेत्यादि । भीषा भीत्या अस्मान्मूलव्यूहात् वात: वायुः पवते
चाति । वातपदोपादानात् पञ्चमहाभूतव्यूहः उपलक्षितः ।
भीषोदेति सूर्यः इति सोमसूर्यव्यूहौ उपलक्षितौ । भीषास्माद-
भिश्च इत्याग्नेयो व्यूहः । इन्द्रश्चेति सर्वव्यूहः । मृत्युर्धावति
पञ्चम इति मृत्युव्यूहः । तत्र अस्यामृचि यद्यपि पञ्चानां व्यूहा-
नामुपादानम्, तथापि तदादिन्यायेन सर्वसंकलनतया भियो
दर्शनात् वातादित्यादीनां स्वस्वरूपेण भयदर्शनमुखेन सर्वेषां
ब्रह्मादीनां संग्रहणात् भयाभावरूपस्य नृसिंहस्य प्रवेशनेन
वा तत्तद्रूपधारणेन वा उभयरूपतेति द्विरूपत्वमस्ति सर्वे-
घाम् । तत्र एकैकस्य देवस्य तत्तद्रूपधारणेन उभयरूपं दर्श-
यन् भूतानां देवानां च स्वान्तर्भावेन उभयरूपं प्रदर्शयति ।
इत्युभयरूपेण सर्वे द्वात्रिंशद्व्यूहं सगृह्णातीयमृगिति तत्त्वा
र्थः । यस्मादेवमुभयोपास्ये भीषणपदं व्याख्यातं तस्मादि-
त्युपसंहरति — तस्मादुच्यते भीषणमिति । एवमुक्तोपास्ये
प्रागुक्तपदं व्याख्याय अथेदानीमुभयापेक्षया तृतीयमष्टमं
च पदमुभयोपास्ये व्याख्यातुं देवप्रश्नः - अथ कस्मादुच्यते
 
:-