2026-05-06 06:50:22 by ambuda-bot
This page has not been fully proofread.
द्वितीयोपनिषत् ।
तत्तद्रूपं स्वस्मिन्स्थापयतीति गिरिष्ठाः । यस्य त्रिषु विक्र-
मणेषु विप्रहेषु विविधं क्रमणं विक्रमणं तेषु ब्रह्मविष्णुमहेश्व-
रात्मकेषु । अधि इत्युपरिभावे । अध्युरुषु बहुलीलाविग्रहेषु ।
भुवनानि सर्वाणि क्षियन्ति निवसन्ति, स्वभावतः तानि
ज्ञानपूर्वकणि निवसन्ति विनिवसन्ति - एषु लीलाविग्रहेषु वयं
तिष्ठाम इति । तर्हि क्षियतिरैश्वर्यकर्म ऐश्वर्य प्राप्नुवन्तीति ।
एवं नानाविधविक्रमणावतरणे वीर्याय सामर्थ्याय तद्दर्शनाय
विष्णुर्मृगः सिंहः प्रस्तवते प्रकर्षेण स्तुतिं लभत इत्यर्थ: ।
यस्माचेदमुभयोपास्ये नृसिंहपदं व्याख्यातं तस्मादित्यु-
पसंहरति--तस्मादुच्यते नृसिंहमिति । एवमुभयापेक्षया
आद्यं षष्ठं नृसिंहपदम् उभयोपास्ये व्याख्याय अथेदानीम्
उभयापेक्षया द्वितीयं सप्तमं च पदं व्याख्यातुं प्रश्नः - अथ
कस्मादुच्यते भीषणमिति । स होवाच प्रजापतिरित्यनुषज्यो-
त्तरम् । यस्माच्छब्दोपादानात्स्वमहिम्नेत्यनुषङ्गः । यस्मात्स्वम-
हिना यस्य मूलनृसिंहव्यूहम्वरूपं साङ्गं शिखाङ्गयुक्तं मौलि-
प्रदेशे चान्द्रतेजोराशियुक्तं सामाङ्गयजुर्लक्ष्मीमन्त्रव्याख्यातं
भूर्भुव: स्वर्महर्लोकचतुष्टय संपिण्डिततेजोराशियुक्तम्
वृष्यतेजोमयं रूपं दृष्ट्वा सर्वे देवास्तदङ्गनिवासिनो वसुरु-
द्रादित्याः सर्वाणि भूतानीमानि भीत्या भयेन पलायन्ते
अप्र-