Proofing

This page has not been fully proofread.

७६
 
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
 
भूतानां मध्ये ना पुरुषाकारो वीर्यवत्तमः ततः सर्वातिशा-
यिनः श्रेष्ठतमश्च सिंहो वीर्यवत्तमः श्रेष्ठतमश्चेत्युक्तार्थम् । त-
तश्च उभयात्मरूपप्रदर्शनेन यद्यद्रूपं कामयते तत्तद्धारणे ली-
लयैव शक्तोऽयमिति दर्शयति । यस्मादेवं तस्मान्नृसिंह:
परमेश्वर आसीदित्यन्वयः । न च नृसिंहे परमेश्वर आसी-
दित्यन्वयः, वैयधिकरण्यापत्तेः, सामानाधिकरण्यान्वयोप-
पत्तौ सत्यां वैयधिकरण्यानुपपत्तेः । तस्मान्नसिंहः परमेश्वर-
त्रिनेत्रो नीलकण्ठः पिनाकीति सिद्धम् । ऋतं सत्यमिति
प्राग्व्याख्यातं मन्त्रवर्णाश्च उक्तं जगद्धितं जगतो हितं जग-
द्धितम् अनि,निरसनेन, वै प्रसिद्धम्, एतद्रूपं प्रागुपास्यत्वेन
यदुक्तमश्नरं भवति यदक्षरमविनाशं चिद्रूपं निराकारं तदेव
साकारमुपासकानुग्रहाय भवतीत्यन्वयः । एवं नृसिंहपदं
षष्ठं मूलनृसिंहव्यूहोपास्ये व्याख्याय तदेव पदम् ऋचा द्वात्रिं-
शन्नसिंहव्यूहे व्याचष्टे - विष्णुः मृग सिंहः प्रस्तवते स्तुतिं
प्राप्नोति स्तुतिमन्त्रैः तद्वीर्याय तत्तत्मामर्थ्याय नभीमः न
भयंकरः । कुचरः कुत्रायं न चरति सर्वदेवविग्रहेषु
लीलया स्वयं विचरति सर्वदेवलीलाविग्रहधारीत्यर्थः । गि-
रिष्ठाः गिरिः पर्वत: तत्स्थ ईश्वरात्मक इत्यर्थः ; यद्वा
गिरिषु वाग्रूपासु स्तुतिषु यद्यद्रूपमभिलषन स्तोता कामयते
 
-