Proofing

This page has not been fully proofread.

द्वितीयोपनिषत् ।
 
७५
 
ति — तस्मादुच्यते सर्वतोमुखमिति । एतदुक्तं भवति-
द्वितीयपादे शिरोऽङ्गविशिष्टः प्रतिपादित सर्व प्रकाशकत्वसर्वा-
ज्ञानदाहकत्वोभयेन्द्रियाभिमानरहितत्वोभयेन्द्रियकार्यकरण-
 
शक्तिमत्वगुणविशिष्टः सामाङ्गसवितृमन्त्रव्याख्यातगुणवि-
शिष्टः मूलनृसिंहव्यूहः उपास्य:, तत इतरो व्यूह इति ।
एवमाद्यादङ्गादुन्नतप्रदेशस्थितत्वाच्छिरसः शिरस्त्वम् उ-
नतत्वम् । अत एव शिर आदित्यः सर्वोत्कृष्टः प्रकाशः तस्मै
उन्नताय उन्नतस्थायादित्याय सर्वोत्कृष्टाय प्रकाशाय स्वाहेति
प्रपञ्चविलापनम् ; तस्मात्प्रपञ्चकारात् तदाकारां बुद्धिं
प्रत्याहृत्य नृसिंहाकारमेव उपासीत इत्येवं शिरोऽङ्गमन्त्रस्या-
र्थः, 'यो वै नृसिंहो देवो भगवान्यश्च सर्वम्' इति श्रुतेः ।
अत एवोक्तं शिरोऽङ्गमन्त्रार्थ व्याचक्षाणैः अस्माभिः प्रप-
श्चागमशास्त्रे ——' तुङ्गार्थत्वाच्छिरोऽङ्गस्य विषयाहरणे त्विषः ।
शिरोमन्त्रेण चोत्तुङ्गविषयाहृतिरीरिता' इति । एवं द्वितीये
पादे साङ्गोपासनामभिधाय तथैव तृतीयपादोपासनामभिधातुं
तदाद्यं पदम्, षष्ठं च मूलमन्त्रापेक्षया, उक्तोपास्ये व्याख्यातुं
देवप्रश्नः-
:- अथ कस्मादुच्यते नृसिंहमिति ; स च उक्तार्थः । स
होवाच प्रजापतिरित्यनुषज्योत्तरम् । अव च यस्माच्छब्दप्र-
योगात् स्वमहिम्नेति अस्य अनुषङ्गं दर्शयति । यस्मात्सर्वेषां