Proofing

This page has not been fully proofread.

७४
 
णम्,
 
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
 
भिमानराहित्यात् अनिन्द्रियत्वम्; अनिन्द्रियोऽप्ययं मूलनृ-
सिंहव्यूहः सर्वतः पश्यति सर्वतः शृणोतीति बुद्धीन्द्रियोपलक्ष-
सर्वतो गच्छति सर्वत आदत्ते सर्वगः सर्वतस्तिष्ठतीति
कर्मेन्द्रियोपलक्षणम्, एवमुभयेन्द्रियाभिमानरहितोऽप्ययं व्यू
ह: उभयेन्द्रियजन्यकार्यकरणशक्तिमाञ्शिरोऽङ्गे उपास्य इति
दर्शयति । एवमिदं सर्वतोमुखपदं मूलनृसिंहोपास्यपरत्वेन
व्याख्याय अथेदानीं द्वात्रिंशन्नृसिंहोपायस्परत्वेन ऋचा व्या-
चष्टे - एकः पुरस्तात् प्राक् ब्रह्मा नृसिंहाकारो बभूव, इदं सर्व
यतो बभूव, भुवनस्य गोपा गोप्ता नृसिंह एव विष्णु-
र्बभूव । यम् अप्येति लयं गच्छति सांपराये प्रलयकाले भुवनं
सबै स नृसिंह एव महेश्वरो बभूवेति बद्धक्रमकाणां व्यूं-
हानां त्रयाणां प्रथमत एवोपादानेन तदादिन्यायेन इतरेषामे -'
कोनत्रिंशद्वयूहानां ग्रहणमस्मिन्मन्त्रे । नमामि नमस्करोमि तं
व्यूहम् अहं नमामीत्येतत्पदद्वयमत्र वदन् सर्वपदव्याख्याने
अनुषक्तमिति दर्शयति । सर्वत्र स्वमहिम्नेत्युपादानात् तत्व
तत्र शक्तिमन्नृसिंहपदमप्येतदनुषक्तम् । सर्वतोमुखमिति -
र्वतो नृसिंहाकाराणि मुखानि यस्य स तथोक्तः तं नृसिंहं
सर्वतोमुखं नमाम्यहमित्यर्थः । यस्मादिदं पदमुभयोपास्यप्र-
तिपादने शक्तं तदुभयप्रतिपादकत्वेन तस्मादित्युपसंहर-