Proofing

This page has not been fully proofread.

द्वितीयोपनिषत् ।
 
वल शब्दो दहनार्थे वर्तमानोऽपि अज्ञानदाहकत्वेन
व्याख्येयः । तत्र लोकाद्यज्ञानस्य प्रकाशवत्तादाहकः प्रकृते
च उपासकाज्ञानदाहक इति । ज्वलन प्रकाशनेनाज्ञानदहनं
कुर्वन् ज्वलिता अज्ञानदहनकर्ता तपन् तापं कुर्वन् अज्ञानस्य
वितपन् स्वयं शान्त: संतपन् संतापं कुर्वन् अज्ञानस्य ।
एते शतृप्रत्यया वर्तमानकालाः सन्तः यस्मिन्काले एतद्वयू-
होपासनं वर्तते तस्मिन्नेव महाविष्णुरुपासकः प्रकाशात्मको-
ऽधिकारी वर्तत इति दर्शयन्ति । रोचनः अनुद्वेगकर: रोच-
मान: इच्छाकरः; अत एव शोभनः शोभमान: कल्याण:
इति एतदुक्तं भवति - मूलनृसिंहव्यूहस्य शिगेऽङ्गे उन्नते
स्थितं तेजः सर्वप्रकाशकं सर्वाज्ञानदाहकं च इति सामाङ्गसा-
वित्रमन्त्रेण व्याख्यातमुपास्यमिति । यस्मादुभयोपास्य प्रति-
पादनक्षमं ज्वलन्तमिति पदं तस्मादुभयोपास्यपरत्वेनोपसंह-
रति—तस्मादुच्यते ज्वलन्तमिति । इति शब्दो व्याख्यातः ।
अथेदानीं क्रमप्राप्तम् मूलमन्त्रापेक्षया पश्चमं पदम् पादापे-
क्षया द्वितीयम्, उभयोपास्ये व्याख्यातुं देवप्रश्नः - अथ कस्मा-
दुच्यते सर्वतोमुखमिति ; स च उक्तार्थः । स होवाच प्रजाप-
तिरित्यनुषज्योत्तरम् । यम्मात स्वमहिम्नति अनुषज्य व्याख्ये-
यम् । अनिन्द्रियोऽपीति सेन्द्रियम्य व्याख्यातविग्रहस्य तद-
 
"