Proofing

This page has not been fully proofread.

७२
 
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
 
व्याख्यातांश्च सर्वाणि भूतानि एतान्पूर्वोक्तान्वक्ष्यमाणांश्च स्व-
तेजमा ज्वलति स्वकीयप्रकाशेन, ज्वालयति एतानपि प्रकाशय-
ति, शिरोऽन्तर्गतं तेजो व्याख्यातम्, सर्वाङ्गाङ्गिव्यापितयाङ्गा-
नामन्योन्यसंबन्धश्रवणात् ' तस्माद्व्यतिषक्तान्यङ्गानि भवन्ति'
इति श्रुतेः । एवं साक्षात्प्रयोजकत्वेन च स्वपरसंबन्धितया शि-
रोऽङ्गान्तर्गततेज:संबन्धे सिद्धेऽपि एतदेव आवेदयितुम् उभ-
यपदित्वेन धातुं प्रयुङ्क्ते, प्राक्परस्मैपदम् इदानीमात्मनेपदम्,
ब्वाल्यते ज्वालयते इति । एवं मूलनृसिंहव्यूहापास्ये चतुर्थ
पदं व्याख्याय द्वात्रिंशन्नृसिंहव्यूहे व्याख्यातुम् ऋचमाह-
सविता सवितृमण्डलवद्वर्तुलतया स्थितत्वान् मवितायं
द्वात्रिंशनृसिंहव्यूह: अत एव प्रसविता सर्वकर्मानुष्ठाने
अभ्यनुज्ञाता, एतद्वयूहोपासनपूर्वकत्वान् इतरोपासनस्य ।
दीप्तः दीपयन्दीप्यमानः यथा अयं सविता रात्रित-
मोविनाशनेन दीप्र: प्रकाशमानः कर्मानुष्ठाने अभ्यनु-
ज्ञाता, तथा अयं द्वात्रिंशन्नृसिंहव्यूहः उपासितः उपासकाय
मूलनृसिंहव्यूहोपासका ज्ञानरात्रितमोविनाशनेन दीप्तः प्रका-
शमानः प्रधानोपासनाभ्यनुज्ञाता । दीपयन्दीप्यमान: इति
शतृशानच्प्रत्ययौ वर्तमानकालार्थी उक्तमेवार्थे द्रढयत: ।
ज्वलज्ज्वलिता प्रकाशं कुर्वन्प्रकाशयिता । यद्वा उभयत्रापि
 
;