Proofing

This page has not been fully proofread.

द्वितीयोपनिषत् ।
 
वा तिष्ठेत उपासकः । आद्यद्वितीयोपासनयोः साममूलमन्त्र-
प्रणवानां वैकल्पिकजपपूर्वकत्वेनावस्थानम् । तथा यत्र यत्र
मूलमन्त्रस्मृतिः तत्र तत्र प्रणवशक्तिबीजसंपुटीकरणम्, त-
त्रापि ईषन्मूलमन्त्रजपपूर्वकः प्रणवजपः श्रेयान् तस्य सः
र्वोत्कृष्टत्वात्सर्वमन्त्रजपप्रत्यान्नायत्वेन विहितत्वात् ' य: प्रण-
वमधीते स सर्वमधीते' इति श्रुतेः । अन्त्ययोरुपासनयोर-
न्त्यसम्मनि निराकारतयावस्थितौ न जपो नान्यचिन्तनं
समाधावेवावस्थितिरिति परमरहस्यविवेको न कस्यचि
त्प्रतिपादनीय इति स्थितम् । यस्मादिदं महाविष्णुपदम्
उभयोपास्यप्रतिपादनक्षमम् तस्मादुच्यते महाविष्णुमिति ।
इति-शब्दः तृतीयपदप्रश्नोत्तरसमाप्तिं द्योतयति । एवं प्रथम-
पाद: व्याख्यातः । एवं प्रथमपादोपासनां साङ्गां विधाय त-
थैव द्वितीयपादोपासनां विधातुं तदाद्यं पदम्, मन्त्रापेक्षया
चतुर्थं च पदम्, व्याख्यातुं प्रश्नोपक्रमः ; स च उक्तार्थः ; अथ
कस्मादुच्यते ज्वलन्तमिति । इति - शब्दो व्याख्यातः । स हो
वाच प्रजापतिरित्यनुषज्योत्तरम् । यः स्वमहिम्ना स्वाधीन -
मायया सर्वलोकानन्तरिक्षगतान्पूर्वोक्तान्भाविनश्च सर्वान् लो-
कान् तदन्तर्गतान्सर्वान्देवान यक्षगन्धर्वादीन् सर्वानात्मनः
ऋग्यजुःसामाथर्वरूपान्पुरुषानन्यानृषीन्सामाङ्गसावित्रमन्त्र -
 
1
 
i
 
.