2026-05-06 06:50:21 by ambuda-bot
This page has not been fully proofread.
७०
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
तत्र च प्रणवपूर्वकशक्तिबीजोच्चारणपूर्वकं सामाभिव्यक्तद्वा-
त्रिंशदक्षरेषु न्यस्तेषु चक्रे यथासंख्यम् एकैकस्मिन्नक्षरे प्र-
णवसंपुटिते तत्तद्वयूहमन्त्रैः तं तं व्यूहं स्तुत्वा तथैवोपास्यः ।
एवं द्वात्रिंशन्नृसिंहव्यूहोपासनया स्वात्मानं महाविष्णुमुपास्य
साङ्गसामाभिव्यक्तसाङ्गमूलमन्त्रेण नृसिंहव्यूहे प्रकरणे • श्रुत-
त्वात् पञ्चाङ्गन्यासं विधाय संप्रदायानुसारेण तस्मिन्महावि-
ष्णौ च तथैव पञ्चाङ्गन्यासं विधाय ततः साङ्गोपासनम् आ-
रभेत । तत्र प्रथमपादे पदत्रयात्मके प्रथमपदव्याख्यानप्रति-
पादितगुणविशिष्टं शक्तिमन्नृसिंहपदपूर्वकं नमस्क्रियापदपूर्वका -
न्त्यपदमुच्चरन् सामाङ्गप्रणवमन्त्र हृद्य मन्त्रप्रतिपादितगुणवि-
शिष्टं मूलनृसिंहव्यूहमुपास्य द्वात्रिंशन्नृसिंहव्यूहम् ऋक्प्रतिपा-
दितम् उपासीत । एवं प्रतिपदं मूलनृसिंहव्यूहोपासनपूर्वकं
द्वात्रिंशन्नृसिंहव्यूहोपासनम् । अत एव हृदयाद्यङ्गमन्त्राणामर्थ
व्याचक्षाणैरस्माभिरुक्तं प्रपञ्चागमशास्त्रे ' हृदयं बुद्धिगम्य-
त्वात्प्रणामः स्यान्नमःपदम् । क्रियते हृदये नातो बुद्धिगम्या
नमस्क्रिया' इति । एवं द्वितीयतृतीयचतुर्थपादेषु तत्तत्पदो-
पासनां प्रागुक्तां कृत्स्नां विधाय महाविष्णुरूपान्त्यशब्दप्र-
तिपादितरूपे वा उपास्यरूपें वा सायुज्यतया सच्चिदान-
न्दरूपे वा अथवा यथान्तःकरणशुद्धियोग्यतया समाधिना