2026-05-06 06:50:20 by ambuda-bot
This page has not been fully proofread.
६८
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
वान्ये चाौ वसव' ' इत्यादिषु च पदेषु । एवं देवकामो जायते
यतो वीरः शूरः, यद्वा वीर : विविधावताररूपेण रमणीय संसार-
शीलो वीरः, कर्मण्यः तत्तदवतरणरूपकर्मशील: उपासकानु-
ग्रहणे । सुदभः पूजितबलः, यद्वा पूजितः । युक्तप्रावां युक्तो
प्रावभिर्युक्तप्रावा, सोमे अध्वर्य्यादिरूपः, 'यो वै नृसिंहो देवो
भगवान्यश्च सर्वम्' इत्यादिमन्त्रवर्णात् । यस्मादुक्तप्रकारेण
उभयोपास्य वीरपदं क्षमम्, तस्मादुच्यते वीरमिति । इति-
शब्द : उत्तरसमाप्तिं द्योतयति । अथेदानों तृतीयपदं व्या-
ख्यातुं देवप्रश्नः; स च उक्तार्थः । सर्वत्र प्रश्नवाक्येषु अथ-
शब्दः तत्तदानन्तर्यार्थः । अथ कस्मादुच्यते महाविष्णुम ।
इति-शब्द: अनुषक्तप्रश्नसमाप्तिं द्योतयति । स होवाच प्रजा-
प्रतिः इत्यनुषज्योत्तरम् । य इत्यत्रापि स्वमहिम्नेत्यनुषङ्गा-
च्छक्तिमन्नृसिंहपदस्यानुषङ्गः । सर्वाल्लोकान्व्याप्नोति व्याप-
यतीत्यत्र सर्वलोकपदाद्देवात्मभूतानां संग्रहः प्राग्बद्धक्रम-
स्वेनावगतानां तदादिन्यायेन । विष्णुरिति विल व्याप्ता-
विति धातोः रूपम् । तश्च व्यापकत्वं निरुपपदत्वेन
महत्त्वं प्राप्तमिति महच्छब्देन तदेव दृढीकृतम् । यद्वा मह
इति तेजोनाम महो व्यापकम् । व्यापकत्वे दृष्टान्तमाह-
स्नेह: तैलादि: यथा पललपिण्डं मांसपिण्डम् ओतम् अनु-