Proofing

This page has not been fully proofread.

द्वितीयोपनिषत् ।
 
६७
 
1. कथं
 
हृत्वित्यर्थः । यस्मादेव प्रागुक्तेन प्रकारेणोभयोपास्ये उग्रपदं
क्षमम्, तस्मादुच्यते उग्रमिति । इति शब्दः उत्तरसमाप्तिं
द्योतयति । एवं प्रथमपदमुभयोपासने क्षममिति विज्ञाय
अथेदानीं द्वितीयं पदमुभयोपास्ये व्याख्यातुं द्वितीयो देव-
प्रश्नः स च प्रथमदेवप्रश्नेन व्याख्यातः ; अथ कस्मादुच्यते
वीरमिति । स होवाच प्रजापतिरिति प्रागुक्तमनुषज्य उत्त-
रम् । यस्मात्स्वमहिम्नेत्यादि सर्वाणि भूतानीत्यन्तमुक्तार्थम् ।
विरमति विरामयति विविधप्रकारेण प्रागुक्तान्प्रति रम-
ति । रम् क्रीडायाम् । तथैव तानाक्रीडयति
क्रीडयतीत्यपेक्षिते आह- अजस्त्रमित्यादि वासयतीत्यन्त-
मुक्तार्थम् । एतदुक्तं भवति — सृष्टिस्थितिलयविमोचनकर्तृ-
त्वरूपाः ब्रह्मादिक्रियाः क्रीडाः प्रागुक्तार्थाः । अतः मूलनृसि-
हव्यूहहृदयं क्रीडायुक्तमुपास्यम् । एवं मूलनृसिंहोपासनापर-
त्वेन द्वितीयं पदं व्याख्याय द्वात्रिंशन्नृसिंहव्यूहोपासनायां
तदेव पदं व्याख्यातुमर्धर्चमाह - यतो वीर इति । देवकाम:
तांस्तान् ब्रह्मादिदेवान् स्वेन रूपेणावतारयितुं कामयते इति
देवकामः । यद्वा नृसिंहव्यूहमेव धृत्वा ब्रह्मादिरूपं प्रकटयति
क्वचिदायुधैः कचिद्विश्वरूपोपपत्तिन्यायेन ' यो वै नृसिंहो
देवो भगवान्यश्च ब्रह्मा' इत्यादिपु 'यो वै नृसिंहो देवो भग-