Proofing

This page has not been fully proofread.

६६
 
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
 
सृजतेरुपसंहारार्थत्वेन तदर्थत्वं विमोचनार्थत्वं वा अव
स्थितिकारयितृत्वमनुग्रहे प्रयोजकत्वमिति मूलनृसिंहव्यू-
हहृदयान्तर्वर्तित्वेन उपास्यम् । एवं मूलनृसिंहगूढहृदयो-
पासापरत्वेन उग्रपदं व्याख्याय अथेदानीं तदेव पदं द्वात्रिंश-
द्व्यूहोपासनापरत्वेन व्याख्यातुम् ऋचमाह । स्तुहीति स्तोतारं
प्रत्यक्षीकृत्याह परोक्षीकृत्य स्तुत्यम् । श्रुतम् 'यौ वै नृसिंह:
इत्यादिमन्त्रवर्णैरेव श्रुतं द्वात्रिंशन्नृसिंहव्यूहम् । गर्तसदं गर्ते
महाचक्रे, गृणातेः स्तुतिकर्मणो गीयते स्तूयते इति व्युत्पत्त्या
र्गतम्, सीदतीति गर्तसदम् । युवानं प्रसिद्धम् । मृगं सिंहरूप-
म् । नभीमम् अभयंकरम् । उपहनुम् अनुग्रहार्थं सर्वत्रोपगम-
शीलम् । उग्रं द्वात्रिंशन्नृसिंहव्यूहरूपम् । अत्रापि सशक्तिकनृ-
सिंहपदस्यानुषङ्गः । स्तुहीत्येवं संबन्धः । एवं परोक्षतः स्तुते
द्वात्रिंशन्नृसिंहव्यूहे तत्सामर्थ्यादक्षरश्रवणयुक्तत्वाच्च तच्छ्रुत्वा
प्रत्यक्षो हि अभूत स व्यूहः उपासकायेति प्रत्यक्षीकृत्वा आह
उत्तरार्धेन - हे सिंह द्वात्रिंशड्यूह मतवानः स्तूयमानः त्वं मृड
सुखय जरित्रे स्तोत्रक । यद्वा चतुर्थीद्वितीयार्थे । ते व
सेना: अस्मन् अस्मत्तः अन्यं निवपन्तु विनाशयन्तु । यद्वा
स्वानुग्रहं लब्ध्वा परानुग्रहं प्रार्थयते - ते तव सेना: तद्वय-
हरूपा: अस्मदन्यं निपूर्वको वपतिरनुग्रहार्थे वर्तते अनुगृ-
 
,