2026-05-06 06:50:20 by ambuda-bot
This page has not been fully proofread.
द्वितीयोपनिषत् ।
६५
न्तरं कस्मात्प्रकृतिप्रत्ययविभागात् अनाख्यातात्मकं प्रथमपद-
मुच्यते व्याख्यायते उभयत्रापि मूलनृसिंहव्यूहे द्वात्रिंशन्न-
सिंहव्यूहे च उग्रमिति । इति-शब्द: प्रश्नसमाप्तिं द्योतयति ।
स प्रजापति: तान्देवान्परमेश्वरोपासनानिष्ठान् विवक्षितार्थ-
प्रष्टृन् दृष्ट्वा हर्षितः उत्तरमुवाच । एवमुत्तरेष्वपि प्रश्नोत्तरेषु
योज्यम् । यस्मात्स्वमहिम्ना स्वतन्त्रशक्त्या मायया तस्या
आत्मतन्त्रत्वादेव स्वातन्त्र्यम् । स्वमहिम्नेति च वचनं सर्व-
शक्तिमत्तृतीयपादाद्यपदानुषङ्गं दर्शयति । एवं तत्तत्पद्व्या-
ख्यानावसरे । सर्वाल्लोकान् पृथिव्यादीन्पार्थिवत्वावान्तरजा-
तिभेदभिन्नान् सर्वान्देवान अग्न्यादीन सप्रणवव्याख्यानपक्षे
ऋग्ब्रह्मादिगाईपत्यान्तान् प्रणवप्रथममात्राप्रतिपादितान् सर्वा-
नात्मन: विश्वादीन् सामाङ्गप्रणवव्याख्याने वक्ष्यमाणान् स-
र्वाणि भूतानि उद्वाति, उदित्यव्ययम् उ इत्येतस्य नि-
पातस्य स्थाने, वर्णसाम्यात् अन्वित्युपसर्गस्यार्थे, ग्रह इत्ययं
गुदातीति भावव्युत्पत्त्या, अनुगृह्णातीत्यर्थः । अजस्रम् अ-
नवरतं तथा च उत्पूर्वको गृह्णाति शब्दः सृष्टिविमोचन-
वसतिषु वर्तते । उद्भाह्यते उद्गृह्यते इत्यात्मनेपदात् प्रयो-
जककर्तृत्वं साक्षात्कर्तृत्वं च इत्युक्तमेवार्थे द्रढयति । तत-
श्रायमर्थः - पूर्वोक्तार्थानुग्राहकत्वं स्रष्टृत्वं च विपूर्वकस्य
8. U. VII. 5