Proofing

This page has not been fully proofread.

द्वितीयोपनिषत् ।
 
६३.
 
त्युक्थ्यम् । यस्मिन्निन्द्रो वरुणो मित्रो
अर्यमा देवा ओकांसि चक्रिरे । तस्मादु-
च्यते नमामीति । अथ कस्मादुच्यतेऽह-
मिनि । अहमस्मि प्रथमजा ऋता३स्य पूर्व
देवेभ्यो अमृतस्य ना३भायि । यो मा
ददाति स इदेव माध्वाः । अहमन्नमन्न-
 
मदन्तमाझि । अहं विश्वं भुवनमभ्यभ-
वा३म् । सुवर्न ज्योतीः । य एवं वे
देन्युपनिषत् ॥ ४ ॥
 
इति द्वितीयोपनिषत् ॥
 
यदर्थप्रतिपादक गूढोपाधिना पदज्ञानमभूत तमेव गूढो-
पाधिं विवृणोति प्रश्नोत्तराभ्याम् । स च अत्र बहुतरो व्या-
ख्येयः साङ्गसामाभिव्यक्तमाङ्गमूलमन्त्रं प्रतिपाद्य । स च
मूलमन्त्र: पदत्रयात्मकः प्रथम पाद: पदद्वयात्मको द्वितीय:
पदत्रयात्मकस्तृतीयः तत्संख्याकपद एव चतुर्थ इत्येकादश-
पदात्मकः । एवमेकादशपदात्मके मत्रे पञ्चाङ्गन्यासानन्तर-
मुक्ते मन्त्रे द्वितीयान्तेषु नवसु पदेषु मन्त्रान्त्यं पदद्वयं