Proofing

This page has not been fully proofread.

६०
 
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
 
पयते । यस्मान्न जातः परोऽन्योऽस्ति य
आविवेश भुवनानि विश्वा । प्रजापतिः
प्रजया संविदानस्त्रीणि ज्योतींषि सचंते
स षोडशीति । तस्मादुच्यते महाविष्णु-
मिति । अथ कस्मादुच्यते ज्वलन्तमिति ।
यः स्वमहिम्ना सर्वाल्लोकान्सर्वान्देवा-
न्सर्वानात्मनः सर्वाणि भूतानि स्वतेज-
सा ज्वलति ज्वालयति ज्वाल्यते ज्वा-
लयते । सविता प्रसविता दीप्तो दीपय-
न्दीप्यमानः । ज्वलज्ज्वलिता तपन्वि-
तपन्संतपन्रोचनो रोचमानः शोभनः
शोभमानः कल्याणः । तस्मादुच्यते
ज्वलन्तमिति । अथ कस्मादुच्यते सर्व-
तोमुखमिति । यस्मादनिन्द्रियोऽपि सर्व-
तः पश्यति सर्वतः शृणोति सर्वतो
गच्छति सर्वत आदते सर्वगः सर्वत-
स्तिष्ठति । एकः पुरस्ताद्य इदं बभूव