Proofing

This page has not been fully proofread.

द्वितीयोयोपनिपत् ।
 
च्यत उग्रमिति स होवाच प्रजापतिर्य-
स्मात्स्वमहिम्ना सर्वाल्लोकान्सर्वान्देवा-
सर्वानात्मनः सर्वाणि भूतान्युद्गृहात्यज-
स्रं सृजति विसृजति वासयत्युद्ब्राह्यन
उने । स्तुहि श्रुतं गर्नसदं युवानं मृगं
नभीममुपहत्नुमुग्रम् । सृडा जरित्रे सिंह
स्तवानो अन्यं ते अस्मन्निवपन्तु मेनाः ।
तस्मादुच्यत उग्रमिति । अथ कस्मादु-
च्यते वीरमिति यस्मात्स्वमहिम्ना सर्वा-
लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि
भूतानि विरमति विरामयत्यजत्रं सृजति
विसृजति वासयति । यतो वीरः कर्म-
ण्यः सुदक्षो युक्तग्रावा जायते देवकामः ।
तस्मादुच्यते वीरमिति । अथ कस्मादुच्यते
महाविष्णुमिति । यः सर्वाल्लोकान्व्याप्नो-
ति व्यापयति स्नेहो यथा पललपिण्डमो-
तप्रोतमनुप्राप्तं व्यतिषक्तो व्याप्यते व्या-
 
५९