Proofing

This page has not been fully proofread.

द्वितीयोपनिषत् ।
 
५७
 
ओंकाराव्यतिरेकात् ओंकार एवेदं सर्वम् । तस्मात्प्रत्यक्षरमुभ-
यत ओंकारो भवति प्रत्यक्षरमेकैकं मूलमन्त्राक्षरं प्रणवेन
संपुटितं कुर्यात् - इत्यक्षराणां मूलमन्त्राक्षराणां न्यासम् अस्त्रा-
ख्येऽङ्गे उपदिशन्ति कथयन्ति ब्रह्मवादिनः ब्रह्मैवोपास्यमिति
ये वदन्ति ते ब्रह्मवादिनः । अत्र च उपदिशन्तीति विशे-
बणोपादानात् मूलमन्त्राङ्गजातमुपदेशगम्यमिति दर्शयति ।
तमिमं पञ्चाङ्गन्यासं यथोक्तविशेषणे परमेश्वरे यथोक्तविशेष-
णविशिष्टं विधाय स्वात्मन्यपि विदध्यात्, अस्मिन्हि प्रकरणे
तस्यार्थजातस्य प्रायशः परमेश्वरसंबन्धितया श्रुतत्वादिति ॥
 
एवं तावत् 'तस्मात्प्रत्यक्षरमुभयत ओंकारो भवति' इति
विधानात्सामाभिव्यक्तमूलमन्त्राक्षरव्यवधानेन अर्थाप्रतिपादने
औपाधिकेन पदाज्ञानेन प्राप्ते, तदव्यवधानेनार्थप्रतिपाद-
नोपाधिना गूढेन पदपरिमाणं ज्ञापयितुं पदोद्धारमाह-
 
तस्य ह वा उग्रं प्रथमं स्थानं जानी-
याद्येो जानीते सोऽमृतत्वं च गच्छति
वीरं द्वितीयं स्थानं महाविष्णुं तृतीयं
ज्वलन्तं चतुर्थ सर्वतोमुखं पञ्चमं नृसिंहं
षष्ठं भीषणं सप्तमं भद्रमष्टमं मृत्युमृत्युं