2026-05-06 05:45:30 by ambuda-bot
This page has not been fully proofread.
सू. २७.]
प्रथमोऽध्यायः ।
-
२७३
संपादयितुम ! परिणामादिति ब्रूमः — पूर्वसिद्धोऽपि हि
सन्नात्मा विशेषेण विकारात्मना परिणमयामासात्मानमिति ।
विकारात्मना च परिणामो मृदाद्यासु प्रकृतिषूपलब्धः; स्व-
यमिति च विशेषणान्निमित्तान्तरानपेक्षत्वमपि प्रतीयते ;
' परिणामात्' इति वा पृथक्सूत्रम् । तस्यैषोऽर्थः — इतश्च प्रकृ-
तिर्ब्रह्म, यत्कारणं ब्रह्मण एव विकारात्मना च परिणाम: सा-
मानाधिकरण्येनाम्नायते 'सञ्च त्यचाभवन्निरुक्तं चानिरुक्तं
च' इत्यादिनेति ॥
योनिश्च हि गीयते ॥ २७ ॥
इतञ्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्म योनिरित्यपि पठ्यते बे-
दान्तेषु -' कर्तारमीशं पुरुषं ब्रह्मयोनिम' इति यद्भूतयोनि
परिपश्यन्ति धीराः' इति च । योनिशब्दश्व प्रकृतिवेचनं-
समधिगतो लोके - 'पृथिवी योनिरोषधिवनस्पतीनाम् इतिं ।
स्त्रीयोनेरप्यस्त्येवावयवद्वारेण गर्भे प्रत्युपादानकारणत्वम् । क-
चित्स्थानवचनोऽपि योनिशब्दो दृष्टः 'योनिष्ट. इन्द्र. निषदे
. अकारि' इति । वाक्यशेषात्त्वत्व प्रकृतिवचनता परिगृह्यते-
'यथोर्णनाभिः सृजते गृह्णते च' इत्येवंजातीयकात् । तदेवं
प्रकृतित्वं ब्रह्मण: प्रसिद्धम् । यत्पुनरिदमुक्तम, ईशापूर्वकं
1
S. W. I. 17a