2026-05-06 05:45:29 by ambuda-bot
This page has not been fully proofread.
२७२
सूत्रभाष्ये
[पा. ४.
इति च । तत्राभिध्यानपूर्विकायाः स्वातन्त्र्यप्रवृत्तेः कर्तेति
गम्यते । बहु स्यामिति प्रत्यगात्मविषयत्वाद्बहुभवनाभिध्या-
नस्य प्रकृतिरित्यपि गम्यते ॥
साक्षाचोभयाम्नानात् ॥ २५ ॥
"
प्रकृतित्वस्यायमभ्युञ्चयः । इतश्च प्रकृतिर्ब्रह्म, यत्कारणं
साक्षाद्रह्मैव कारणमुपादाय उभौ प्रभवप्रलयावान्नायेते-
'सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते ।
आकाशं प्रत्यस्तं यन्ति' इति । यद्धि यस्मात्प्रभवति यस्मिं-
श्व प्रलीयते तत्तस्योपादानं प्रसिद्धम्, यथा व्रीहियवादीनां
पृथिवी । 'साक्षात्' इति च - उपादानान्तरानुपादानं
सूचयति ' आकाशादेव' इति । प्रत्यस्तमयश्च नोपादानाद-
न्यत्र कार्यस्य दृष्टः ॥
आत्मकृतेः परिणामात् ॥ २६ ॥
-
इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मप्रक्रियायाम् ' तदात्मानं
स्वयमकुरुत' इत्यात्मनः कर्मत्वं कर्तृत्वं च दर्शयति-
आत्मानमिति कर्मत्वम्, स्वयमकुरुतेति कर्तृत्वम् ; कथं पुनः
पूर्वसिद्धस्य सत: कर्तृत्वेन व्यवस्थितस्य क्रियमाणत्वं शक्यं