2026-05-06 05:45:28 by ambuda-bot
This page has not been fully proofread.
२७०
-
सूत्रभाष्ये
[पा. ४.
ब्रूमः — प्रकृतिश्चोपादानकारणं च ब्रह्माभ्युपगन्तव्यम्,
निमित्तकारणं च ; न केवलं निमित्तकारणमेव; कस्मात् ?
प्रतिज्ञादृष्टान्तानुपरोधात् । एवं हि प्रतिज्ञादृष्टान्तौ श्रोती
नोपुरुध्येते । प्रतिज्ञा तावत् -- 'उत तमादेशमप्राक्ष्यो येना-
श्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्' इति; तत्र
चैकेन विज्ञातेन सर्वमन्यदविज्ञातमपि विज्ञातं भवतीति
प्रतीयते ; तञ्च्चोपादानकारणविज्ञाने सर्वविज्ञानं संभवति,
उपादानकारणाव्यतिरेकात्कार्यस्य; निमित्तकारणाव्यतिरेकस्तु
कार्यस्य नास्ति, लोके तक्ष्णः प्रासादव्यतिरेकदर्शनात् ।
दृष्टान्तोऽपि यथा सोम्यैकेन मृत्पिण्डेन सर्वे मृन्मयं वि-
'
ज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् '
इत्युपादानकारणगोचर एवाम्नायते; तथा 'एकेन लोहमणि-
ना सर्वे लोहमयं विज्ञातं स्यात् ' ' एकेन नखनिकृन्तनेन
सर्वे कार्ष्णायसं विज्ञातं स्यात्' इति च । तथान्यत्रापि
' कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति' इति
प्रतिज्ञा; 'यथा पृथिव्यामोषधयः संभवन्ति' इति दृष्टा-
न्तः । तथा 'आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते
इदं सर्वे विदितम्' इति प्रतिज्ञा ; ' स यथा दुन्दुभे-
ईन्यमानस्य न बाह्याञ्शब्दाशक्नुयाग्रहणाय दुन्दुभेस्तु