2026-05-06 05:45:28 by ambuda-bot
This page has not been fully proofread.
सू. २३.]
प्रथमोऽध्यायः ।
२६९
लक्षितम् ; तच लक्षणं घटरुचकादीनां मृत्सुवर्णादिवत्प्र-
७. प्रकृत्यधि- कृतित्वे कुलाल सुवर्णकारादिवन्निमित्तत्वे च
करणम् । समानमित्यतो भवति विमर्शः
किमा-
त्मकं पुनर्ब्रह्मणः कारणत्वं स्यादिति । तत्र निमित्तकारण-
मेव तावत्केवलं स्यादिति प्रतिभाति; कस्मात् ? ईक्षापूर्व-
ककर्तृत्वश्रवणात् — ईक्षापूर्वकं हि ब्रह्मण: कर्तृत्वमवगम्यते-
' स ईक्षांचक्रे ' ' स प्राणमसृजत' इत्यादिश्रुतिभ्यः ; ईक्षा-
पूर्वकं च कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु दृष्टम;
अनेककारकपूर्विका च क्रियाफलसिद्धिलोंके दृष्टा; स च न्याय
आदिकर्तर्यपि युक्तः संक्रमयितुम् । ईश्वरत्वप्रसिद्धेश्व- ईश्व-
राणां हि राजवैवस्वतादीनां निमित्तकारणत्वमेव केवलं
प्रतीयते ; तद्वत्परमेश्वरस्यापि निमित्तकारणत्वमेव युक्तं
प्रतिपत्तुम् । कार्यं चेदं जगत्सावयवमचेतनमशुद्धं च दृश्यते,
कारणेनापि तस्य तादृशेनैव भवितव्यम्, कार्यकारणयोः सा-
रूप्यदर्शनात् ; ब्रह्म चानेवंलक्षणमवगम्यते— 'निष्कलं
निष्क्रियं शान्तं निरवद्यं निरञ्जनम्' इत्यादिश्रुतिभ्यः ;
पारिशेष्याद्ब्रह्मणोऽन्यदुपादानकारणमशुद्धयादिगुणकं स्मृति-
प्रसिद्धमभ्युपगन्तव्यम्, ब्रह्मकारणत्वश्रुतेर्निमित्तत्वमात्रे पर्य-
वसानादित्येवं प्राप्ते—